________________
71
The Śvetämbara Narratives
स 'निवृत्ति कुलोद्भुतो 'लाट 'देशविभूषणः । आचारपंचकोयुक्तः प्रसिद्धो जगतीतले ॥२॥ अभूद् भूतहितो धीरस्ततो देल्लमहत्तरः। ज्योतिनिमित्तशास्त्रज्ञः प्रसिद्धादेशविस्तरः ॥ ३॥ ततोऽभूदुल्लसत्कीर्ति ब्रह्म 'गोत्रविभूषणः । दुगस्वामी महाभागः प्रख्यातः पृथिवीतले ॥ ४। 'प्रव्रज्यां गृह्णता येन गृहं सद्धनपूरितं । हित्वा सद्धर्ममाहात्म्यं क्रिययेव प्रकाशितं ॥ ५॥ यस्य तच्चरितं वीक्ष्य शशाककरनिर्मलं । बुद्धास्तत्प्रत्ययादेव भूयांसो जंतवस्तदा ॥ ६॥ सहीक्षादायकं तस्य स्वस्य चाहं गुरुत्तमं । नमस्यामि महाभागं गर्षिमुनिपुगवं ॥७॥ क्लिष्टेऽपि 'दुःषमा'काले यः पूर्वमुनिचर्यया । विजहारेह नि:संगो दुर्गस्वामी धरातले ॥८॥ सद्देशनांशुभिर्लोके द्योतित्वा भास्करोपमः । श्री मिल्लमाले' यो धीरो गतोऽस्तं सद्विधानतः ॥९॥ तस्मादतुलोपशमः सिद्धर्षिरभूवनाविलमनस्कः। परहितनिरतैकमतिः सिद्धांतनिधिर्महाभागः ॥१०॥ विषमभवगर्तनिपतितजंतुशतालंघदान दुल लतः । दलिताखिलदोषकुलो(5)पि सततकरुणापरीतमनाः॥ ११ ॥ यस्संग्रहकरणरतः सदुपग्रहनिरतबुद्धिरनवरतं। आत्मन्यतुलगुणगणेर्गणधरबुद्धि विधापयति ।। १२ ॥ बहुविधमपि यस्य मनो निरीक्ष्य कुंदेंदुविशदमद्यतनाः । मन्यत विमलधियः सुसाधुगणवर्मकं सत्यं ॥ १३ ॥ उपमितिभवप्रपंचाकथेति तच्चरणरेणुकल्पेन ।
गीर्देवतया विहिता(s)भिहिता सिद्धाभिधानेन ॥ १४ ॥ अथवा।
आचार्य हरिभद्रो मे धर्मबोधकरो गुरुः । प्रस्तावे भावतो हंत स एवाये निवेदितः ॥ १५ ॥ विषं विनिर्धर कुवासनामयं
व्यचीचरट् यत्कृपया मदाशये । अचिंत्यवीर्येण सुवासनासुधां
नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १६ ॥ :
1 Verses 10-13 seem to be interpolated unless they refer to Sadda Rşi instead of Siddha Rai, the author.
se