________________
130]
Catalogue of Palm-Leaf Mss, in the
समजनि धनदेवः श्रावकस्तस्य सूनुः प्रथितगुणसमुद्रो मंजुवाणीविलासः । गगनवलयरंगत्कीर्तिचंद्रोदयेऽस्मिन् लगति न च कलंका खंजनं यस्य सत्काः ।।
तस्य च भार्या यशोमती, तयोश्च पुत्रः गुणरत्नैकरोहणाचलः धर्मचंदनद्रुममलयः कीर्तिसुधाधवलितसमस्तविश्ववलयो यशोदेवश्रेष्ठी । तस्य च--
आंबीति नाम्ना जनवत्सलाऽभूद् भार्या यशोदेवगृहाधिपस्य । यस्याः सतीनां गुणवर्णनायामाचैव रेखा क्रियते मुनींद्रैः ॥
तयोश्च पुत्रा उद्धरण-आम्बिग-बीरदेवाख्या बभूवुः । सोली-लोली-सोखीनामानश्च पुत्रिकाः संजज्ञिरे । अन्यदा च सिद्धांतलेखनबद्धादरेण जिनशासनानुरंजितचित्तेन यशोदेवश्रावकेण सिद्धांतविचारपर्यायपुस्तिका लेखयामास । पूज्यश्रीविमलाख्यसूरिंगणभृच्छिष्यस्य चारित्रिणो
योग्याऽसौ गणिचंद्रकीर्तिविदुषो विद्वजनानंदिनी। शास्त्रार्थस्मृतिहेतवे परिलसज्ज्ञानप्रपा पुस्तिका
___ भक्तिप्रांचितयत्युपासकयशोदेवेन निर्मापिता ॥ यावच्चंद्ररवी नभस्तलयुषौ यावच्च देवाचलो
_यावत् सप्तसमुद्रमुद्रितमही यावन्नभोमंडलम् । यावत् स्वर्गविमानसंततिरियं यावच्च दिग्दंतिन
स्तावत् पुस्तकमेतदस्तु सुधियां व्याख्यायमानं मुदे ॥ छ॥ इति प्रशस्तिः समाप्ता ॥ छ ।।
(6) Katicit Siddhanta Vicara and Parvava
(६) कतिचित् सिद्धान्तविचार तथा पर्याय Folios - 11
Size - 13.7x2 inches Language - Prakrit, Sanskrit
Condition - Fair Age of MS. - c. Latter half of 15th cent. V.S.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org