________________
Šantinātha Jain Bhandāra, Cambay
| 123
ऋजुता सुसखी यस्याः सा झणकूस्तनूरुहा । रंभाभिधा तदन्या च देसलस्य शुभात्मनः ।। २२॥ सहजलदेवी जाया मायामुक्तस्य सहजपालस्य । राजमतिः सत्कान्ता साहणसाधोस्तु सद्बुद्धेिः] ॥ २३ ॥ [सुतो] लावण्यसिंहस्य सामन्तः समतायुतः । तल्लघुः सांगणश्चापि कुलधूर्धवलः किल ॥ २४ ॥ पुण्यपानीयसंपर्काद् वृद्धिं याति कुलद्रुमे । आशाधरो विशुद्धात्मा चिन्तयामास चेतसि ॥ २५ ॥ श्रुताधीनं कलौ धर्म नैव तत्पुस्तकं विना । पुस्तकानि तु लिख्यन्ते लेखकैलब्धवेतनैः ॥ २६ ॥ विचिन्त्येति स्वचित्तेन पित्रोः पुण्याय भावतः । उत्तराध्ययनस्येह ससूत्रं वृत्तिपुस्तकम् ॥ २७॥ सिद्धसूरिगुरोराज्ञां बिभ्राणः शिरसा भृशम् । करेष्वग्नीन्दु १३५२ वर्षेऽत्र व्यलीलिखदवाचयत् ।। २८ ॥ युग्मम् ।। एवं संघाधिपोऽसौ विशदगुणमयः साधुआशाधराह्वः
पित्रोः पुण्याय हर्षादतिरुचिरमिदं पुस्तकं वर्ण्य वर्णम् । ................व्रतानां कलितमसि सतामुत्तराध्यायवृत्तेः
विद्वल्लोकस्य चित्तप्रशमसुखकरं कारयामास विज्ञः ॥२९॥ आशाधर ! तवापूर्वा कीर्तिवल्ली समुद्गता । आलवालेव दुष्काले निर्जले दोनदानतः ॥ ३० ॥ श्रीदेवगुप्तसूरीणां शिष्यः समुदि संसदि । पासमूर्तिस्तदादेशात् किमप्यर्थमभाषत ॥ ३१ ॥ ................जस्येह पुष्पदन्तौ स्थिराविमौ ।
गुरुभिर्वाच्यमानोऽयं तावन्नन्दतु पुस्तकः ॥ ३२ ॥ छ । संवत् १३५२ वर्षे वर्षाकाले श्रीउपकेशगच्छे ककुदाचार्यसंताने श्रीसिद्धसूरिप्रतिपत्तौ सा० देसलसंताने सा० गोसलात्मजसंघपतिआशाधरेण श्रीउत्तराध्ययनवृत्तिः ससूत्रा कारिता ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org