SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Santinatha Jain Bhandara, Cambay १६ Jain Educationa International स श्रीवीरजिनो जीयाद्यस्य पादनखांशवः । विकाशे भव्यराजीवराजेस्तरुणभानवः ॥ १ ॥ श्रुत्वा वटावाप्ति[...]मुख्यमुच्चैहिंसाफलं यत्र दयाप्रधानाः । धर्म्येषु कृत्येषु जना यतन्ते पुरं तदत्रास्ति दयावटाख्यम् ॥ २ ॥ तत्राऽभवत्कुमरसिंह इति प्रसिद्धः श्रेष्ठी जिनेशपदपंकजबद्धरागः । सम्यक् त्रिवर्गनिरतोऽपि सुधर्मकामः प्राग्वाटवंशतिलकः सदनं गुणानाम् ॥ ३ ॥ नाम्ना कुमरदेवीति तस्य जज्ञे सधर्मिणी । शीलादिभिर्गुणैः शुभैः सुलसामनुकारिणी ॥ ४ ॥ तयोस्तनूजाः क्रमशो बभूवुः पंचप्रपंचाचरणेन वित्ताः । तत्रापि धुर्यो नयमार्गनिष्ठो देदाकनामा सुगुणैर्गरिष्ठः ॥ ५ द्वितीयः किल झांझाकस्तृतीयः सांगणाभिधः । धनपालश्चतुर्थस्तु पंचमोऽभयडाभिधः ॥ ६ ॥ आद्यस्य सीलपात्रं विंझलदेवी बभूव सुकलत्रम् । देवगुरुविनयनम्रा धांधलदेवी द्वितीयस्य ॥ ७ ॥ श्रृंगारदेव्यभिधया शुचिशीला सांगणस्य जायाऽभूत् । धनपालस्य तु दयिता सलषणदेवीति सुयथार्था ॥ ८ ॥ आल्हणदेवी संज्ञा जज्ञे जाया पुनः कनिष्ठस्य । देदाकस्य तनुभुवोऽजयसिंहप्रभृतयोऽभूवन् ॥ ९ ॥ धर्मकर्मरते नित्यं गुरुलज्जाविभूषणे । देदादीनां स्वसारौ द्वे लील-हंसी बभूवतुः ॥ १० ॥ अथ संस्तारकदीक्षां प्रपद्य जनके सुरालयं प्राप्ते | देदाकः सकुटुम्बः शुश्रावैवं सुगुरुवाक्यम् ॥ ११ ॥ मनुष्यत्वादिदुष्प्रापां लब्ध्वेमां द्वादशांगिकाम् । धर्म एव विधातव्य इहामुत्र सुखार्थिना ॥ १२ ॥ यद्यपि स चतूरूपः प्ररूपितस्तीर्थनायकैर्भविनाम् । गृहिणस्तथापि सुकरो विशेषतो दानधर्मोऽत्र ॥ १३ ॥ For Personal and Private Use Only [ 121 www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy