________________
542
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
श्रीभिदाशासनस्य श्रियंशोभां विभूति वा शासनस्य दूषणद्वारेण भिन्दन्ति निराकुर्वन्ति ये ते श्रीभिदो बौद्धादयः तेषामाशा मनोरथो अभीष्टकरणता तां अस्यति क्षिपतीति, तत्तथोक्त तस्य सकलपरवादिजिनमत निराकर्तृ तिरस्कारस्येत्यर्थः, आदेशस्य च । कीदृशस्य ? श्रियं लक्ष्मी हरेभिन्दन्ति तिरस्कुर्वन्ति विदारयन्तीति येते श्रीभिदो दानवास्तेषां पाशा तां अस्यतीति तत्तथोक्त तस्य निरशेषासुरमनोरथनाशस्येत्यर्थः ।
CLOSING
इति. । चन्द्रमा शशी सरति गच्छति । कि ? कर्तुमिव कथयितुमिव । कस्य ? तस्यै प्रियायै । क्व ? अम्बराध्वनि प्राकाशमार्गे । किं कृत्वा ? अवध्वा
अकृत्वा । कां? रति प्रीति क्व? इलाभति पर्वते अस्ताचले उदयाचले । कथं
सरति ? तूर्ण शीघ्र। कथम्भूतः चन्द्रमा ? गदितः उक्तः । कया ? अध्वन्यवध्वा पथिकभार्यया । कस्यां ? यामवत्यां रात्रौ ! कीदृश्यां ? अयामवत्यां दीर्घायां । कीदृश: ? उदीयमानः उदयं गच्छन् कथं ? गदितः ? दीनं दैन्ययुक्त। कर्गदितः ? विविधवचोभि: नानावचनैः । कथमिति आदिकाव्यप्रभृतिपूर्वोक्तवचनैः । कथमित्येवं शेषं पूर्वोक्त ॥२३॥
चन्द्रदूतस्य काव्यस्य यथाबोधं कृता मया । वृत्तिर्जनावबोधाय शोधनीया सुपण्डितः ॥१॥
COLOPHON: इति श्री शान्तिसूरिविरचिता चन्द्रदूतकाव्यवृत्तिः समाप्ता । छ ।
3414/8051 (3). मेघाभ्युदयकाव्य-टीका
OPENING :
अथ मेघाभ्युदयकाव्यस्य वृत्तिः क्रियते । तत्र चायं सम्बन्धः-काचिद् वनिता मेघागमसमये प्रियतमं प्रवासं सर्वमिदं काव्यपरिसमाप्ति यावदाह तत्र चाद्योऽयं श्लोकः- काचित्. काचिदनिर्दिष्टनाम्नी वनिता कान्तं प्रियं वदति स्म उक्तवती। कीदशं ? बद्धारम्भं विहितप्रारम्भ किमर्थ ? प्रवासाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org