________________
492
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur Collection)
रत्नप्रभाभिधं सेवे सित-सम्भवसंज्ञको। अकलङ्क तथा चन्द्रस्वामिनं च शुभङ्करम् ।।१।। सत्वनाथमथ स्तौमि सुन्दरं च पुरन्दरम् । स्वामिनं देवदत्त च तथा वासवदत्तकम् ॥२॥ इत्थं द्वितीयभरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥
इति द्वितीय भरतस्तवः ।।
वृषभं प्रिय मित्राख्यं शान्तनु सुमृदु तथा । अतीतमव्यक्त-कलाजित सर्वजितः स्तुवे ॥१॥ प्रबुद्ध प्रत्नजिताख्यमीडे सौधर्मसंज्ञकम । तमोऽन्धदीप- वजे शौ बुधनाथं प्रबन्धकम् ॥२॥ एवं तृतीये भरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥
इति तृतीय भरतस्तवः ।।
मदमूर्त तथा मूर्तिस्वामिनं च निरागसम् ! प्रलम्बितं नमस्कुर्वे पृथ्वीपत्यभिधानकम् ॥१॥ चारित्रनिधिमञ्चामोऽपराजित-सुबोधको । बुद्धे शं वैतालिकाख्यं त्रिमुष्टि मुनिबोधकम् ॥२॥ इत्थं चतुर्थे भरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य :श्री संघतिलकश्रियम् ।।१३।।
इति चतुर्थ भरतस्तवः ।।
पद्मचन्द्र च रक्ताङ्ग पूजयेऽहमयोगिकम् । सर्वार्थमृषिनाथं च हरिभद्र गणाधिपम् ॥१॥ पारत्रिकं ब्रह्मनाथं मुनीन्द्र दीपकं तथा । राजर्षि विशाखं च चिन्तितं चिन्तयाम्यहम् ।।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org