________________
74 1
OPENING
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L. N. Śāstrī Dadhica Collection )
:
Jain Education International
सुरवृन्देषु नितान्तं त्वं विलससि सेरो, गोपीमण्डलमालापरिमण्डनमेरो ।
जय जय नरपतिकुलवर यादवकुलकेतो, लोकानामतिसर्जन रक्षाहृतिहेतो ॥५॥ अय्यर्जुनकृत मंत्रीकृतसारथिकर्मन्,
शन्तनुसुतदृढभत्या परिहृतनिजधर्मन् । जय जय रक्षः स्त्रीसुतमानध्वंस सदा
बुद्धिश्चलति यदा मम देव नियच्छ तदा ||६|| यि कुन्तीसुतवाचा त्वं दौत्येऽयासी
युध्वा जाम्बवता सह रत्नं तमरासीः । वैकुण्ठाधिप वन्दे तव चरणसरोजं
ध्याये दधतं चक्रं शङ्खगदाम्माजम् ॥७॥ कमलाविलसितवक्षो जय वैकुण्ठपते,
जय सुरगणकृतनुतिततिधृतपरिचित्तरते । तव चरणं शरणमितो हर यमदूतभयम्,
केशव संसृतितो मम देव विधेहि जयम् ||८|| गोपीनाथविरचितं प्रपठति धृतधरणे,
स्तोत्रमिदं स न लभते लोके जनिमरणे । भोगानवनौ भुक्त्वा याति स विष्णुपदम्,
कृतकृत्यत्वं लभते हत्वा जन्मगदुम् ||३|| वासुदेव सुराधीश ब्रह्मादिनुत लोकप । इदं नीराजनस्तोत्रं श्रुत्वा प्रीतो भव प्रभो ॥ १० ॥ इति श्रीगोपीनाथविरचितं हरिनीराजनस्तोत्रं सम्पूर्णम् ॥
406. कुमारसम्भव 'काव्यार्थप्रकाशिका' टीका
॥ श्रीरामोविजयते ॥
श्रीमन्मदनगोपालं नत्वा तत्त्वार्थदीपकम् । सर्वविघ्नापहर्त्तारं दातारं सुखसम्पदाम् ॥१॥ विष्णुदासतनूजेन हरिदासेन धीमता । कुमारका [व्यस्य ] क्रियते यथाबुद्धय [द्धि ] प्रदीपिका ॥२॥
For Private & Personal Use Only
www.jainelibrary.org