________________
70
]
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Sastri Dadhica Collection)
संसृतिभीतकलौ [सु] विगीते कुशलाधीते घेहि रतिम्, जय जय हे रघुवंशशिरोवरभूषण पाहि हरे विमतिम् ॥१॥ जनकसुताप्रिय निर्गुण निष्क्रिय सर्वपतत्रिपयानगते, खण्डितदानब मण्डितमानवपण्डित वा नवगीतनुते । भवकधितारण रक्षितवारण विश्वविहारण पश्य नतिम् । जय जय० ॥२॥ दशरथनन्दन दुष्टनिकन्दन परिधृतचन्दनलेप हरे, खण्डितशिवधनुरगणितगुणजनुरम्बुजरुचितनुरेतु चरे। दीनं भावय जगतं पावय रावय दैत्यजनं कुमतिम् । जय जय० ॥३॥ धृतवरभूषण जितखरदूषण सर्वविदूषणनाशकृते, धृतपीताम्बर कृतवसुधाम्बर नाकवृतां वर सत्यधृते । त्वयि धृतचित्ते हतवरवित्ते ध्वस्तविपत्त धेहि मतिम् । जय जय० ॥४॥ अयि भवतो भवतो भवतो भवतोऽपरजन्ममृतीविहते, तव महसो महसो महसो महसो वसवः सततं नियते । रारतनो रतनो रतनो रतनोरतनो शुभरूपततिम् । जय जय० ॥५॥ सुररिपुरंगकृतारिविभङ्ग विहङ्गमपुष्पकयानगते, श्रीमदसङ्गकुरङ्गदृशः सदपाङ्गविलोकनलुब्धमते । नीलसरोरुहकान्तियुताङ्ग सुरेशवराङ्ग कृतात्मनतिम् । जय जय० ॥६॥ परिजनसुखकर संसृतिभयहर गरधरसंस्थितिधत्त (म)रते, नरवरतनुधर सकलहृदयचर शरणदुरितहर विवरगते । सुमुनिविनुततर निगमकथनपर धर मयि सत्वगुणेश रतिम् । जय जय० ॥७॥ त्वयि मयि भेदलवोऽपि न देव तथापि च सेव्यतरोऽस्ति भवान्, भृत्यजनोऽस्मि विभाति जगत्त्वयि सूक्ष्मतरोऽस्ति तथैव महान्, दीनतरस्य निषिद्धचरस्य सुमन्दतरस्य विधेहि गतिम् । जय जय० ॥८॥
रामचन्द्रप्रसादाय पुष्पाञ्जल्यष्टकं शुभम् । गोपीनाथेन रचितं धृतपुष्पाञ्जलिः पठेत् ॥६॥
इति श्रीदधीचिवंशोद्भवकविश्रीगोपीनाथविरचितं श्रीरामचन्द्रपुष्पाखल्यष्टकं सम्पूर्णम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org