________________
58 ]
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Sastri Dadhica Collection) श्रीबुन्देलकुलोत्तमाङ्गमुकुटालङ्कारहीरः सुधीः,
श्रीमद्रामपदारविन्दनिरतो दारिद्रयविद्रावणः । शौर्याधःकृतफाल्गुनादिव सुधाधीशाग्रगण्योच्चयो
विज्ञः कोऽपि सुजानसिंह इति यः ख्यातो धराधीश्वरः ॥७॥ प्रास्यं हास्ययुतं वपुः पुलकितं वाक्यं सुधाधःकिरं,
स्वान्तं मोदमयं च लोचनयुगं स्वानन्दपूर्णेक्षणम् । श्रुत्वैवार्थिजनं तदग्रगमनं यस्येदृशी जायते
___ऽवस्था तस्य मयाज्ञया सुकृतिना सत्सम्प्रदायानुगः ॥८॥ न्याये गौतमतोऽधिकः कणभुजः शास्त्रे करणादः परो
मीमांसाद्वयकाननाद्वयहरिर्वेदान्तसर्वस्ववित् । योगे योगविदां वरः कपिलजित् साङ्ख्ये कवित्त्वे कविः,
साहित्येऽनुपमः स्मृतौ मनुसमः शाब्दे च यः पाणिनिः ॥६।। विश्वामित्रकुलोद्भवो निजकुलोत्तंसः सतामग्रणीः
सर्वानन्दकरः प्रभाकर इति ख्यातः प्रभावाधिकः । तस्माद्योऽजनि कृष्णसंज्ञसुमतिः क्षोण्यां सतां सम्मतो
भैयाभट्ट इतीह तेन विदुषा ग्रन्थोऽयमारभ्यते ॥१०॥ धर्मादेव भवत्यनर्थविलयः सम्यक् सदानुष्ठिता--
दर्थः कामफलोदयश्च सुधियां मोक्षोऽपि तस्मादिति । बुन्देलेन्द्रसुजानसिंहरुचये रत्नाकरं कुर्वतां
भैयाभट्टविदामयं समुचितः सर्वोपकारः सताम् ॥११॥
CLOSING :
सुजानधर्मरत्नाख्यो विख्यातोऽस्तु महीतले। रामचन्द्रप्रसादेन कल्पस्थायी भवत्त्वसौ ॥१३॥ साम्प्रतं तत्र समयः सम्यक् समयदीधितिः।
निरूप्यते यत्समयमनीषा सुखतो भवेत् ॥१४॥ सर्वाणि नामसनि (मानि)हितस्य राजन् सर्वार्थसिद्धयेहि भवन्ति पुंसः । तस्माद्यथेष्टं खलु देवनामा सर्वेषु कार्येषु जपेत्तु भक्त्येति ॥
।। इति विष्णुनामसङ्कीर्तनकालस्य निर्णयः॥ सुजानधर्मरत्नेऽस्मिन् समयो नाम दीधितिः । भैया? न विदुषा यथामतिविधे चितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org