________________
48
।
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur: Pt. H. N. Vidyābhūṣaṇa Collection)
कविना मरिणकण्ठेन सुभाषितसरस्वता।
प्रशस्तिद्विजमुख्येन रचितेयमनिन्दिता ॥१०॥ प्रतापलङ्केश्वरवाग्द्वितीयां बिभ्रत् सुहृत्तां मणिकण्ठसूरेः ।
___ अशेषभाषासु कविलिलेख वर्णान् यशोदेवदिगम्बरार्कः ॥१०६॥ एकादशस्वतीतेषु संवत्सरशतेषु च ।
__एकोनपञ्चाशति च गतेष्वब्देषु विक्रमात् ॥१०७।। पञ्चाशे चाश्विने मासे कृष्णपक्षे नृपाज्ञया ।
रचिता मणिकण्ठेन प्रशस्तिरियमुज्वला ॥१०८।। अङ्कतोऽपि ११५०॥ प्राश्विन बहुलपंचम्यां में [1] तैस्तैस्तस्य महीपतेः प्रतिरणं प्रौढप्रतापानले,
नाश्चर्यं यदनेकशो रिपुचमूचक्र : पतङ्गायितम् । यस्येन्द्रप्रतिमस्य बुद्धिसहितः सर्वज्ञकल्पोभवन्
नीत्या निर्जितसौर्यवंशतिलकाचार्यः स गौरः सुधीः ॥१०६।। किं चित्रं यन्महीपालो भुनक्ति स्माखिलां महीम् ।
यस्य गीर्वाणमंत्रीव मंत्री गौरोऽभवत् सुधीः ।।११०॥ प्रशस्तिरियमुत्कीर्णा सद्वर्णा पद्मशिल्पिना । देवस्वामिसुतेन श्रीपद्मनाथसुरालये ।। १११।। तथैव सिंहवाजेन माहुलेन च शिल्पिना ।
प्राप्नुवन्तु समुत्कीर्णान्यक्षराणि यथार्थताम् ।। ११२॥ लिखितं विप्र गोपीचन्द शर्मा गौड़ जयपुर निवासी मिती पौष कृष्णा ४ भौमवासरे सम्वत् १९६४ विक्रमी ता० २१ दिसम्बर सन् १९३७ ई०॥ लिखायतं पुरोहितजी श्री हरिनारायणजी बी० ए० विद्याभूषण ॥ महाराजा श्रीसवाईमानसिंहजीराज्ये ।।शुभम्।।
62. चाटसू का शिलालेख । (बालादित्य)। [ (१) (२) प्रादि संख्याएँ शिलालेख की पंक्तियों को द्योतक हैं। ] (१) [ोंन] मः। याजज [न्ममु] खाब्ज श्रीः श्रीमतां या विरोधिनी।
तां वन्दे वाङ्मयो देवीं वाक्प्रपंचप्रसिद्धये ।।१।। एकोपि [गु] रा संपर्काद्भिद्यते मुरजित्रिधा। योज [ग |..........."स्तु [वः श्रि] ये ।।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org