________________
28 1
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhāsana Collection) कलिकालकेसरिकुले तस्य गोचक्ररक्षणे दक्षाः । अभवन् विजितविपक्षाः पृथ्वीराजादयो भूपाः ।।५।। तद्वंशे राजानो भानव इव वै बभूवुस्ते । वाग्भट्टदेवप्रमुखा: जनमुदोल्लासनेकसद्भावाः ।।६।। ततोऽभ्युदयमासाद्य जैत्रसिंहरविनवः।
अपि मण्डप मध्यस्थं जयसिंहमतीतपत् ॥७॥ कूर्म क्षितीशकमठीकठिनोरुकंठ-पीठी विलुंठनकठोरकुठारधारः । यः कर्करालगिरिपालकपालपालिखेलत्करालकरवालकरो विरेजे ||८|| __येन झपाइथाघट्ट ५ मालवेशभटाः शतां(तम्)।
बद्धाः रणस्तंभपुरे क्षिप्ता नीताश्च दासताम् ।।६।। तस्मिन् सुवर्णधनदानविधानपुण्य-पण्यैः पुरन्दरपुरीतिलकायमाने। साम्राज्यमाज्यपरितोषितहव्यवाहो हम्मीरभूपतिर[सृज्यत] भूतधात्रा ॥१०॥ यः कोटिहोमद्वितयं चकार श्रेणी गजानां पुनरानिनाय ।। निजित्य येनार्जुनमाजिमुन्द्धि श्रीमालवेशं जगृहे हठेन ।।११।।
रणस्तंभपुरे दुर्गे घेश्म पुष्पक संज्ञकम् । तिसृभिभूमिभिर्युक्त यः कांचनमचीकरत् ।।१२।। मथुरापुरोविनिर्गतकायस्थकटारियान्ववायाह्वे ।
जाता अनंतसे श्रीधरसंज्ञाः क्रमेण मरणय: प्राक् ।।१३।। लक्ष्मणस्तदनु लक्ष्मणाधिको लक्ष्यलक्षणविलक्षणोऽभवत् । यश्चलत्कमलकोमलेक्षणो बंधुवत्सल तवेव लक्ष्मणः ।।१४।।
पूर्णपालः स भूपालप्रियोऽस्य तनयोऽभवत् ।
यः प्राप यमुनापाल मे बालचरितं शुभम् ॥१५॥ तस्य सूनुरजनिष्ट वरिष्ठो विष्टपि| पे] खलु सोमणसंज्ञः। देवराजदुहिता परिणीता येन शीलनिधिसोमलदेवी ॥१६॥ तस्य सुतोऽजनि नरपतिनामा भानुकृशानुकनकसमधामा। यद्गुफणजनितकोतिमृदुवामा दूरमिवति सततमभिरामा ॥१७॥
१. मांडूनगर। २. कछवाहाराजा। ३. ..........." । ४. ........." ! ५. झपाइथा का घाटा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org