________________
[ १२ ] कदा स्वच्छच्छायाश्रितमहमहो तं यदुपति,
समाधौ संस्थाप्याचल इव विहायान्यकरणम् । अये भक्तोद्धाराम्बुजवदन नन्दस्यतनय,
प्रसीदेत्याक्रोशनिमिषमिव नेष्यामि दिवसान् ॥५॥ कदाचित् कालिन्द्यास्तटतरुकदम्बे स्मितमभि
स्मयन्तं साकूतं धृतवसनगोपीस्तुतपदम् । अहो भक्तानन्दाम्बुजवदन नन्दात्मतनय,
प्रसीदे० ॥६॥ कदाचित् कान्तारे विजयसखमिष्टं नृपसुतं,
___ वदन्तं पार्थाहो नृपसुतसखे बान्धववर । भ्रमन्तं विश्रान्तं श्रिततुरगमाद्यं हरिमभि,
प्रसीदे० ॥७॥ कदाहं सम्पूर्ण पुरुषममलं पङ्कजदृशं
घनश्यामं पीताम्बरपरिहितं रामसहितम् । अह दीनानाथ त्रिभुवनपरित्राणकुशल,
प्रसीदेत्याक्रोशनिमिषमिव नेष्यामि दिवसान् ।।६।।
॥ इति श्रीकृष्णलहरी सम्पूर्णं ॥ 372. गिरिजेश्वरस्तोत्ररत्नावली
॥ श्रीगणेशाय नमः ॥ शरण्यो लोकानां घटत इह को नु (ऽयस्) तदितरो
न यस्येश स्वान्तं क्षरणमपि विना देवदयया । प्रपन्नोऽतः शम्भो तव चरणपङ्केरुहमहं,
विहायान्यान् देवान् व्रतबलितपस्तोष्यमनसम् ॥१ ब्रह्मा नागाधिराजस्त्रिदशपतिगुरुः शारदा सारदात्री,
पाराशर्यो विशाखो गिरिशमुनिवरो यश्च वाल्मीकिनामा। एतेऽपि त्वद्गुणानां वरगुणगणनां नैव कर्तुं समर्थाः,
का वार्ता मानुषाणां तदिह मितधियां मन्दशक्त्यायुषाञ्च ।।१००॥ स्वभक्तसन्मानसराजहंस नवौषधीनाथकलावतंस । दयाम्बुधे शङ्कर नीलकण्ठ प्रसीद विश्वेश्वर विश्ववन्द्य ॥१०१॥
OPENING
:
CLOSING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org