SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ [ ७ ] 316. रामस्तोत्रम् लक्ष्मरण उवाच प्राञ्जनेय शृणु स्तोत्रं सर्वकामफलप्रदम् । रत्नसिंहासनस्थं च द्योतयन्तं त्रिविष्टपम् ॥१ इन्द्रनीलनिभं रामं पूर्णचन्द्रनिभाननम् । जानकीलक्ष्मणोपेतं ध्यात्वैवं पठ मारुते ।।२ रघुनाथो रघुश्रेष्ठो राघवो रघुपुङ्गवः । रघूत्तमो हरिविष्णू रामचन्द्रो रघुप्रियः ॥३ वैदेहीवल्लभो रामो राघवेन्द्रो रघूद्वहः। रामभद्रो राघवेशो राघवो रघुनन्दनः ।।४ कौशलेयो दाशरथी राजेन्द्रो हनुमत्प्रियः । अभिरामो रावणारिः परमात्मा सनातनः ॥५ बालिप्रमथनो वीरो विभीषणवरप्रदः । अष्टाविंशति नामानि यः पठेत् सततं नरः ॥६ पुत्रान् विद्यां लभेदायुर्भूतचौरभयं नहि । कल्पकोटिकृतं पापं पाठमात्रेण नश्यति ।।७ ॥ इति श्रीलक्ष्मणकृतं श्रीरामस्तोत्रं समाप्तम् ।। 335. सावित्रीदिव्यमन्त्रगभिताष्टकस्तोत्रम् ॥ गणेशाय नमः ।। ॥ अथ सावित्र्यष्टकं लिख्यते ॥ श्रीमन्मन्दसुहास्यपेशलमुखां सुस्निग्धगण्डस्थलाम, माणिक्यैः खचितान्तरप्रवि[ल] सत्ताटङ्कयुग्मान्विताम् । कञ्जाक्षी कमनीयवेरिणनिकरां कारुण्यमूर्ति शिवाम्, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ॥१ झंझझकृतनूपुरा झटिति सद्भक्तात्तिवित्रासिनीम्, काञ्चीकङ्कण मुद्रिकाद्यगणितैः सन्मण्डनैर्मण्डिताम् । हस्ते पुस्तकधारिणीमभयदामापीनकुम्भस्तनीम्, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ॥२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy