________________
श्रद्धाञ्जलिः ।। पुण्योदयप्रशस्तिः ।।
पुण्यमूर्तिः पुण्यचेताः पुण्यधीः पुण्यवाहाः । पुण्यकर्मा पुण्यशर्मा श्री पुण्यविजयो मुनिः ।।१।। निसर्गवत्सलो धीरो विशालहंदयस्तथा। परोपकारप्रवणो नम्रसौम्यस्वभावभाव ॥२।। उदारचिन्तनो दीपप्रज्ञो वाचंयमस्तथा । निर्भीकः सत्यसामर्थ्यप्रभाप्रसृमरोदयः ।।३।। जैन-वैदिक-बौद्धानां शास्त्रेषु सुविशारदः । सम्माननीयो विदुषां विद्यासंस्थेव जङ्गमा ।।४।। यदीयो व्यवसायश्च मुख्यरूपेण वर्तते । श्रेष्ठपद्धतितः प्राच्यशास्त्राणां परिशोधनम्।।५।। बहुप्राचीनशास्त्राढयभाण्डागारावलोकनम् । कृत्वा श्रमेण योऽकार्षीत् तेषामुद्धारमुत्तमम् ॥६॥ महामेधाविना येन प्राचीना बहुगौरवाः । ग्रन्थाः सम्पादिताः सन्ति विद्वदानन्दकारिणः ॥७॥ विद्यासङ्गपरायणो मुनिपदालङ्कारभूतक्रियः, श्रेष्ठाचारविचारपूतविकसद्वैदुष्यनिष्पादितम् । भव्यश्लोकमनल्पधाममहिमाबिभ्रन्महासात्त्विको, जीयाद् विश्वजनाय पुण्यविजयः पुण्यप्रकाशं दिशन् ।।८।।
।। पुण्यस्तवः ।।
अजातशत्रवे विश्वमित्राय स्नेहमूर्तये। सर्वेषां च हितं कर्तुं तत्पराय निसर्गतः ।। महाविपश्चिते प्राच्यशास्त्रशोध-प्रकाशने । समर्पितस्वनिःशेषजीवनस्थामसम्पदे ।। चारित्रोद्योतदीप्राय निस्पृहायाऽभयाय च । श्री पुण्यविजयायाऽस्तु नमः पुण्यविभूतये ।। प्रज्ञानप्रवरो गुणज्ञहृदयो नम्रश्च सेवापरः, साहित्योदधिसंविगाहनरसासक्तं च यमानसम्। नानादृष्टिसमन्वयप्रगुणधीः संस्कारलक्ष्मीपतिः, पुण्यः पुण्यनिधिश्च पुण्यविजयः पुष्णातु पुण्यं पथम् ।।
- न्यायतीर्थ मुनिवराः श्री न्यायविजयमहोदयाः ।
१. महाकवि महाविद्वान् स्व. न्यायतीर्थ न्यायविजयजी महाराजे पू. श्री पुण्यविजयजी महाराजनी स्तुति रूपे रचेला * आ श्लोको पू. श्री पुण्यविजयजी महाराजना शिष्यसमान पं. अमृतलालभाई मोहनलाल पोजक पासेथी अमने मल्या छे. -पूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजय,
-
-
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use only
www.jainelibrary.org