________________
11571
The Digambara Works
281
Ends-fol. 209a
बहुना(७)किमुक्तेन समुत्तीर्य भवार्णवं ।। अर्हत्पदं समामोति क्रमात्रैलोक्यवंदितः ॥ ३१ ॥ श्रीमन्नेमिचरित्रमुत्तममिदं नानाकथापूरितं । पापध्वांतविनाशनकतरणिं कारुण्यवल्लीवनं । भव्यश्रेणिमनःप्रमोदसदनं भक्त्यानघ(घं) कीर्तनं । नानासत्पुरुषालिचेष्टितयुतं पुण्यं शुभं पावनं ॥ ३२ ॥ श्रीवर्द्धमानेन जिनेश्वरेण । त्रैलोक्यवंदौ(दे?)न यदुक्तमादौ । ततः परं गौतमसंज्ञकेन । गणेश्वरेण प्रथितं जनानां ॥ ३३ ॥ ततः क्रमाच्छ्रीजिनसेननाम्नाचार्येण सेनागमकोविदेन । सत्काव्यकेलीसदनेन पृथ्वीं । नीतं प्रसिद्धं चरितं हरेश्व ॥ ३४ ॥ श्रीकुंदकुंदान्वयभूषणोऽथ । बभूव विद्वान् किल पद्मनंदी। मुनीश्वरो वादिगजेंद्रसिंहः । प्रतापवान् भूवलये प्रसिद्धः ।। ३५ ।। तत्पपंकेजविकाशभास्वान् । बभूव निग्रंथवरप्रतापी । महाकवित्वादिकलाप्रवीणः । तपोनिधिः श्रीसकलादिकीर्तिः । ३६ ॥ पट्टे तदाये गुणवान्मनीषी । क्षमानिधानो भुवनादिकीर्तिः । जीयाचिरं भव्यसमूहवंद्यो । नानायतिव्रातनिषेवणीयः ॥ ३७ ॥ etc. सद्ब्रह्मचारी गुरुपूर्वकोऽस्य । भ्राता गुणज्ञोऽस्ति विशुद्ध चित्तः । जिनस्य दासो जिनदासनामा । कामारिजेता विजितो धरियां ।। ३९ ॥ श्रीनेमिनाथस्य चरित्रमेत- । दनेन नीत्वा रविषेणसूरेः। समुद्धृतं स्वान्यसुखप्रबोध- हेतोश्चिरं नंदतु भूमिपीठे ॥४०॥ श्रीमजिनेश्वरपदांबुजचिंचरीकः । तच्छास्त्रसद्गुरुषु भक्तिविधानदक्षः । सार्थाभिधोऽसौ जिनदासनामा । दयानिवासो भुवि राजतेऽत्र ॥४१॥ etc. इति श्रीहरिवंशे भ० नेमिनाथनिर्वाणगमनवर्णनो नाम एकोनचत्वारिंशतमः सर्गः ॥ ३९ ॥
इति श्रीहरिवंशमहाग्रंथः समाप्तः । लिषतनरेंद्रसौभाग्यः लिषायतं पं कल्याणदासजी।
सं १८२२ आषाढ शुक्ल १४ सोमवासरे ।
-36 [3. L P]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org