________________
382.] VII. Supernumerary Prakirņakas
339 तेषामुभौ विनेयौ देवेंद्रगणींद्र-विजयचंद्राद्वौ ४६ श्रीदेवेंद्रगुरोरपि । शिष्यौ द्वौ भूतलख्यातौ ।३०। श्रीविद्यानंदगणी । प्रथमोऽन्यो धर्मघोषमूरिरिति ४७ अथ सोमप्रभमरि ४८ स्तस्य विनेयास्तु चत्वारः । ३१ श्रीविमलप्रभसूरिः १ श्रीपरमानंदसरिगुरुराजः २ श्रीपद्मतिलकसूरि ३ । गणतिलकः सोमतिलकगुरुः । ४।३२ । श्रीसोमप्रभसूरेः । पट्टे श्रीसोमतिलकसूरींद्राः ४९ । तेषां त्रयो विनेयास्तत्र श्रीचंद्रशेखर प्रथमः । ३३ । सूरिजयानंदोऽन्यस्तृतीयका देवसुंदरा गुरवः । श्रीसोमतिलकसूरेस्त एव पट्टांबरादित्याः ५०।३४। तेषां च पंच शिष्याः प्रथमे श्रीज्ञानसागरा गुरवः । कुलमंडना द्वितीयाः । श्रीगुणरत्नास्तृतीयाश्च । ३५। तुर्या अहार्यवीर्या गुरवः श्रीसोमसुंदरप्रभवः । आसंश्च पंचमा अपि गुरवः श्रीसाधुरत्नाह्वाः । ३६ । श्रीदेवसुंदरगुरोः पट्टे श्रीसोमसुंदरगणींद्राः॥ अभवन् युगप्रधानाः ५१ शिष्यास्तेषां च पंचैते । ३७॥ श्रीमुनिसुंदरसूरिः १ श्रीजयचंद्रो गुरुर्गरिमधाम । २। श्रीभुवनसुंदरगुरु ३ जिनसुंदर४ सूरि-जिनकीर्ती ५।३८॥ श्रीसोमसुंदरगुरोः । पट्टे मुनिसुंदरो युगप्रवरः ५२ । तत्पमुकुटरत्नं स रत्नशेखरगुरूत्तंसः । ३९। श्राद्धविधिसूत्रवृत्त्यायनेकसग्रंथनिर्मितिपटिष्ठः ॥ ५३। लक्ष्मीसागरसूरिस्तत्पदमंडनमतिगरिष्टः । ५४ । ४० आसीत्तदीयपट्टे गुरुर्गुणी सुमतिसाधुसूरींद्रः । ५५ श्रीहेमविमलसूरिस्तदीयपट्टे गुरुः समभूत् । ५६ । ४१ अथ दुषमोत्थदोषात् । प्रमादवशचेतसो ममत्वभृतः । अभवन्मुनयः प्रायः । स्वाचाराचरणशैथिल्याः । ४२ किंचिन्निरीक्ष्याप्यसमंजसं तत् ।
शास्त्रार्थशून्यैः प्रतिभोज्झितैश्च । 'लुका'द्यनादेयमतांधकूपे ।
ऽप्यंधौरवोच्चैः पतितं प्रभूतैः । ४३।। इतश्व
श्रीहेमविमलसूरिर्दूरीकृतकल्मषः स सूरिगुणं । ज्ञात्वा योग्यं तूर्ण । धर्मस्याभ्युदयं संसिद्धथै । ४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org