________________
92.1
V. I! Angas
Ends.-- fol. 2772 अथवा साधर्म्य साक्षादेव आह । गुणैर्गाभीर्यादिभिर्विशालो
विस्तीर्णः तद्बहुत्वाथः स तथेति गाथार्थः । छ । नमो गोयमाईणं गणहराणमित्यादयः ॥ पुस्तकलेखकनमस्काराः प्रकटार्थाश्चेति न व्याख्याताः । छ । इति भगवतीविशेषवृत्तिः समाप्ता ॥ छ ।
यदुक्तमादाविह साधुयोधैः
श्रीपंचमांगोन्नतकुंजरोऽयं । सुखाधिगम्यो(s)स्त्विति पूर्वगुर्वी
प्रारभ्यते दृत्तिवरत्रिकेयं ॥१॥ समर्थितं (तत्पदुबुद्धिसाधु
स(सा)हायकात्केवलमत्र संतः। सद्बुद्धिदाच्याऽपगुणांलुनंतु
सुखग्रहा येन भवत्यथैषा ॥२॥ 'चांद्रे' कुले सद्वनकक्षकल्पे
महागुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः
श्रीवर्द्धमानो मुनिनायकोऽभूत् ॥३॥ तत्पुण्यकल्पौ विलसद्विहाय(? र).
सद्गंधसंपूर्णदिशौ समंतात् । वभूवतुः शिष्यवरावनीच
वृत्ती श्रुतज्ञानपरागवंतौ ॥४॥ एकस्तयोः सूरिवरो जिनेश्वरः
ख्यातस्तथा(s)न्ये(ऽन्यो) भुवि बुद्धिसागरः। तयोर्विनेयेन (वि)बुद्धिना(5)प्यलं
वृत्तिः कृतेषाऽमयदेवलारणा ॥ ५॥ तयोरेव विनेयानां तत्पदं चानुकुर्वतां । श्रीमतां जिनचंद्राख्यसत्प्रभूणां वि( ? नि)योगतः ॥ ६॥ श्रीमज्जिनेश्वराचार्यशिष्याणां गुणशालिनां । जिनभद्रमुनींद्राणामस्माकं चांहिसेविनः ॥ ७ ॥ यशश्चन्द्रगणै(णे)र्गाढस(सा)हाम्यात्सिद्धिमागता । परित्यक्तान्यकृत्यस्य युक्तायुक्तविवेकिनः ।। ८॥ शास्त्रार्थनिर्णयसुसौरभलंपटस्थ विद्वन्मधुव्रतगणस्य (सदैव) सेव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org