SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ५२ काव्यग्रन्थाः प्रतिज्ञातम् । अयं च शान्तिसूरिः पूर्णतल्लगच्छीयवर्धमानाचार्यस्य मुख्यशिष्यः । धनपालकविकृतायास्तिलकमार्याः टिप्पनं जैनतर्कवार्तिकवृत्तिश्चैतस्कृते विलोक्येते । एकादश-द्वादशशताब्दीमध्यकालीनोऽयं वृत्तिकारः सम्भाव्यते। मेघाभ्युदयकाव्यवृत्तिः । शान्तिसूरिः क्र. ३४५(२) मूलमात्रमेतन्मानाङ्ककविनिर्मितं P. P. ३।२९१ इत्यत्र प्रदर्शितं तदेव । वृत्तिकारः शान्तिसूरिः पूर्वसूचितः स एव । राक्षसकाव्यटीका क्र. ३४५(४) कालिदासकृतित्वेन प्रसिद्धमेतन्मूलमात्रं तु मुद्रितम् । टीकाकर्तुर्नाम नोपलभ्यते । शान्तिसूरिणा वृन्दावनकाव्य-घटखर्परकाव्य-मेघाभ्युदयकाव्य-शिवभद्रकाव्य-चन्द्रदूतकाव्यसंज्ञकानां पञ्चानां यमकमयकाव्यानां वृत्तयो विनिर्मितास्तेनैवेयमपि टीका विहिता वाऽन्येन केनचिदिति स्पष्टं न विज्ञायते । एतत्पुस्तकविलेखनं सं. १२१५ वर्षे जिनदत्तसूरिशिष्यजिनचन्द्रसूरेः शिष्यो जिनमत(? पति)यतिबंधादिति प्रान्तप्रशस्तितोऽवगम्यते । लेखकोऽपि व्याख्याता सम्भाव्यते । घटखर्परटीका क्र. ३४५(५) मूलमानमेतन्मुद्रितम् । टीकाकर्तुनाम नात्र दर्शितम् , तथापि शान्तिसूरिकृतेयमिति सम्भाव्यते; यस्थान्या वृत्तयोऽत्रैव पुस्तके प्रदर्शिताः। ले. सं. १३४३ मधुवर्णनम् । केलिकविः क्र. १९८(३) ले. सं. १३४३ विरहिणीप्रलापम् । केलिकविः क्र. १९८(४) [S. २॥२८] एतद् द्वयमपि यमकमयं लघुकाव्यं कवेः प्रौढकवित्वं प्रतिपादयति । कविवर्यस्यास्य सत्तासमयो न विज्ञातः। - चक्रपाणिविजयम् । [लक्ष्मीधरः] क्र. २८१(१) [S. २७६] अयं कविराजो भोजदेवसमकालीन इति प्रान्तप्रशस्तितोऽवगम्यते । भट्टिकाव्यलघुटीका । अनिरुद्धः क्र. ८३ इयमपूर्णा प्राचीना टीका न काप्यन्यत्रोपलभ्यते । टीकाकारोऽयमनिरुद्धपण्डितः कदाऽऽसीदिति न विज्ञायते । साङ्क्षयसूत्रवृत्ति-भाष्यवार्तिकटीकाविवरणपञ्जिकाकारश्चानिरुद्धोऽमादभिशोऽनुमीयते। किरातार्जुनीयटीका । प्रकाशवर्षः पृ. ५५ [ M. L. पृ. ७७०३] इयं प्राचीना लघुटीका कदा प्रादुर्भावमापति न निश्चयेन ज्ञायते । टीकाकारेण स्वस्य काश्मीरकत्वं हर्षतनयस्वं च समसूचि । भट्टनरसिंहसूनुगौंडकविः टीकाकारस्य विद्यागुरुीयते । १ वृन्दावनादिकाव्यानां यमकैरतिदुर्विदाम् । वक्ष्ये मन्दप्रबोधाय पञ्चानां वृत्तिमुत्तमाम् ॥-H. ३ चरणकरणदक्षः क्षीणदोषो जिताक्षः क्षपित विधिविपक्षः क्षान्तिमान् बद्धकक्षः । पतिपतिजिनदत्ताचार्यदत्तोपदेशास्खलितमहिमयोगात् कान्तकीर्तिर्मुनीन्द्रः॥१॥ समननि जिनचन्द्रश्चन्द्रवचारुरोचिर्गणधरपदलाभाल्लब्धलोकप्रतिष्ठः । जिनमत(?)यतिरेतत्तद्विनेयः सुशान्तो व्यलिखदमलबुद्धिः कृत्स्नकर्मक्षयाय ॥२॥ शरचन्द्रसूर्यसङ्ख्ये संवद्विक्रमभूपतेः । अतियाति नभोमासे पञ्चदश्यां तिथौ रवौ ॥३॥ यावजिनप्रवचनं प्रवरप्रतापं यावजिनागमविदो यतिनोऽपपापाः । यावत्सुदर्शनभृतः स्थिरधीरचित्तास्तावत् सुपुस्तकमदः सुधियः पठन्तु ॥४॥-H. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy