SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३० ले. सं. १२०१ न्यायप्रवेशटीका । हरिभद्रसूरिः क्र. २३ मूलमात्रेयं कृतिर्दिङ्नागनामधेयस्य बौद्धाचार्यस्य । टीकाकारस्तु जैनेषु महामान्यश्चतुर्दशशतप्रकरणकृत्येन सुप्रसिद्धो विरहाङ्को हरिभद्रसूरिः, यस्य समय निर्णयार्थ नैके विद्वांसो विवदन्ते । वि. सं. ५८५ वर्षेऽस्य सूरिवर्यस्य स्वर्गमनं समजनीति प्राचीनानां मतम्, आधुनिकैस्तु विक्रमीयाष्टम-नवमशताब्दीमध्यकालीनत्वं स्वीक्रियते (पृ. १८) । अचिरेण प्राकट्यं नेष्यतेऽयं ग्रन्थोऽनया संस्थया । [पं. सं. ११६९ ] न्यायप्रवेश [ टीका ] पञ्जिका । [ पार्श्वदेवगण: ] क्र. २४४ [P.P. १।८१ ] इयं पूर्व सूचितायाष्टीकायाः पञ्जिका टीकया साकं प्रसिद्धिमानेष्यतेऽनया संस्थया । पञ्जिकाकारः शीलभद्रसूरि शिष्य धनेश्वरसूरिशिष्यः पूर्व पार्श्वदेवनाम्ना प्रसिद्धो विशेषावस्थायां श्रीचन्द्रसूरिनाना प्रथितो यस्य कृतिसमुदितिः पूर्वं (पृ. २१) सूचिता । क्र. १२० तत्त्वसङ्ग्रहः । [ शान्तरक्षितः ] तत्त्वसङ्ग्रहपञ्जिका | कमलशीलः क्र. ८ [ अप्रसिद्ध ० सूचितं खल्वनया संस्थया पञ्जिकासमेतोऽयं प्रन्थो मुद्रापयितुमारब्धः, स चाचिराद् गोचरीकरिष्यते विद्वद्वृन्देन । ले. सं. ११९४ प्रमाणान्तर्भावः क्र. ६ H. प्रतिप्रान्तं पत्तनीयसूच्युलेखं च दृष्ट्वा दर्शितं ' प्रमाणान्तरुचि' इति नाम न सम्यक् | जैनग्रन्थावल्यां ही सूव्याधारेण दर्शिते ' प्रमाणान्तः स्तव' 'बौद्धमीमांसाइलन' इति नामनी अपि न समीचीने । तथैव देवभद्र- यशोदेवी चास्य कर्तारौ न केवलमस्य लेखकावेताविति प्रतिभाति H. प्रतिप्रेक्षणेन । किञ्च पुस्तकेऽत्र ग्रन्थद्वयं वर्तते, पूर्व चतुर्दश पत्राणि यावन्मीमांसकद्दर्शनस्य शाबर भाष्यस्य प्रथमाध्यायस्य प्रथमपादो वर्तते; तदनन्तरं तस्य कुमारिलकृत श्लोकवार्तिकस्य च खण्डनरूपो बौद्धदर्शनानुसारी प्रत्यक्षानुमान १ 'न्यायप्रवेशकटीका च हारिभद्रो सू० टी० ५९७' – बृ० २ “न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पञ्जिका । स्वपरार्थं ब्धा स्पष्ट पार्श्वदेवगणिनाम्ना ॥ ग्रह-रस-रुद्रैर्युक्ते विक्रमसंवत्सरे तु राधायाम् । कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ॥" - पञ्जिकाप्रान्ते P. 'न्यायप्रवेशक टिप्पनं ११६९ वर्षे श्रीचन्द्रीयम्' - नृ० ३ ' तत्त्वसङ्ग्रहः प्रकृतीश्वरादिनिरासवाच्यो बौद्धः ३७१६'--नृ० ४ " यस्य प्रज्ञा प्रकाशः कवलयति जगच्चक्रमेषा ( षो) कलंक : सत्यार्थ (?) वा विधातुं यदपर उदयी नासमर्थोकलंकः । तत्रत्वा स्वार्थसंपत्सु हितमनुपमो मंहु (जु) वाग् यो न दीन: प्रत्यक्षं चानुमा धे (चे) त्यत उदितमिदं येन तुल्यो नदीनः ॥" - प्रमाणान्तर्भावप्रारम्भे H. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy