________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. VI (Appendix)
195
त्रिंशता परिहृता दिनादिकं लग्नजीवितमिदं प्रकीर्तितम् ।। पिण्डजे सहज-संज्ञके तथा जीवशर्मगदितेऽपि जीविते ॥ २५ ॥ संस्कार एव मुदितो ग्रह जीवितांशसंशोधने परममावफलानुसारम् । उक्ताल्पके सति च भावफले ऽनुपाताद् ग्राह्यो बुधैविधिरसाविहभावयुक्तः ।। ३०॥ अंशोद्भवं मूर्तिबलात्प्रधानं सूर्यस्य वीर्यादिह पिण्डसंज्ञम् ।। नैसर्गिकं तद् द्विजराजवीर्याद वीर्यं त्रयाणामथचेत्समानम् ॥ ३१ ।।
(अग्रे पाठ-विच्छित्तिः)
1124/24263 लघुपाराशरी-सटीक
Opening :
श्रीगणेशाय नमः ।।
कृपाजलनिधिहृताऽखिलनमदुराधिर्जनुजरामतिमयामयोन्मथितजीवदिव्यौषधिः तुषारगिरिवंशवारिधि:कलानिधिःकोप्यसो
विभाति विनमद्विधिनिरवधूनमत्शेवधिः ॥ १।। श्रीमद्गोविन्दरामाभिधविबुधशिरोरत्नसंशोधितोऽयं
ग्रन्थो वाग्विश्वमुद्रांकित भवनपदख्यातसंज्ञमनोज्ञ ॥ मुद्रागारे विशाले विविदिषुसुमनः प्रीतयेमुद्रितोवाग विश्वेन्द्र स्याज्ञया संजनितबुधमुदे वीरसिंहस्य काश्याम् ।।२।।
।। इति प्रथमावृत्तिः ॥
श्रीलक्ष्मीरमरणं गणेशमभयं श्रीमद्गुरु शारदा सूर्यादिग्रहमण्डलं सविनयं नत्त्वा विदां प्रीतये ।। ज्योतिश्शास्त्रकलाकुतूहलरतिस्तत्तत्प्रबन्धानहं वीक्ष्योद्योतमिमं तनोमि विशदं दायप्रदीपेऽमलम् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org