________________
Catalogue of Sansklit & Prakrit Manuscripts Pt. VI
(Appendix) 193
1119/24391 रत्नावली-पद्धति
Opening :
श्रीगणेशाय नमः ॥
ब्रह्मा प्ररणामावसरप्रतीक्षी वीक्ष्येति दक्षः सुरराजमन्त्री ।। यद्वारि दूरात् कुरुते सुधीरं, पुरन्दरं तं वरदं नमामि ॥१॥
यस्य प्रसन्नस्य कृपा कटाक्षात् पारं गतोऽहं गणितार्णवस्य । वन्दे मुदा तं सुकृतावदातं श्री दुण्डिराज गुरुमात्मतातम् ।। २ ।। पूर्वैः कृता जातकपद्धतीनां होरा प्रकारे रचनाविशेषः ।। तथापि कुर्वे सरला गणेशो रत्नावली पद्धतिमुत्तमोक्तिम् ।। ३ ।।
होराफलं सदसदाख्यफलाबबोधः सोपि ग्रहादिभिरिमे समयाच्चयन्त्रैः ।। वेद्यस्ततो जननकाल इहस्फुटोऽतः सिद्धान्ततः स्फुटतरा द्य चराः सलग्नाः ।। ४ ।।
मध्याह्नकालावधिमध्यरात्रातथा निशीथावधि वासरार्धात् ।। पूर्वापरे गोलदले क्रमेण स्यातामिदं गोलविदो वदन्ति ॥ ५॥
मध्याह्नकालावधिजन्मकालात्
च्यां प्रतीच्यां नतमुन्नतं च ॥ तथा निशीथावधि नाडिकाद्य नतं खरामच्युतमुन्नतं वा ।। ६ ।।
प्रागुम्नते स्पष्टसहस्ररश्मेः प्रत्यङ्गते भाद्ध युताच्च तस्मात् ।। लंकोदयः साधितमत्रलग्नं भावो भवेद्भूतलसंज्ञकोऽयम् ।। ७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org