SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit &Prakrit Manuscripts, pt. VI (Appendic) 189 1086/24132 जातकपद्धति ॥६०॥ श्रीमद्गुरुभ्यो नमः ॥ Opening नत्त्वा तां श्रु तदेवतां त्रिसमय ज्ञानौद्गतेः कारणं तत्पादाम्बुरुहेप्रसादविकसद् बोधो बुधः श्रीपतिः । शिष्यप्रार्थनया विचार्य सकलान्होरागमार्थान्मुहुः वक्ष्ये जातककर्मपद्धतिमहं होगविदां प्रीतये ॥१॥ व्याख्या।। अहं श्रीपतिभट्टनामा द्विजः शिष्यप्रार्थनया जातफकर्मपद्धति वक्ष्ये ।.... Closing ॥अथ ग्रन्थसमाप्तिर्वैतालीयेनाह इति जातककर्मपद्धतिं गुरुपादाक्षयुगप्रसादतः ॥ वरशिष्यजनप्रबोधिनी कृतवान् श्रीपतिरग्रजाग्रणीः ।।११।। ॥व्या.॥अग्रजाग्रणीः अग्रजेषु ब्राह्मणेषु अग्रणीः श्रेष्ठः श्रीपतिराचार्यः श्रीगुरुपादाब्जयुगप्रसादतः जातककर्मपद्धति कृतवान् । कीदृशीं जातककर्मपद्धति वरशिष्यजनप्रबोधिनी वरः श्रेष्ठोशिष्यजनस्तं प्रबोधयितुशीलमस्यास्तीति । अत्र ग्रन्थश्लोकत्वंशज्ञानार्थ तथा प्रक्षेपज्ञानार्थच ग्रन्थसंख्या शालिन्याह- अध्यायानामष्टके वृत्तिरिति. १२ ।।व्या।। अस्यां पद्धतौ अध्यायानामष्टके वृत्तसंख्या षट् त्रिचन्द्र प्रमाणा षट्त्रिंशदधिकशतं १३६ प्रमाणं यस्यास्तादृशी प्रोक्ता । अनुष्टुप् छन्दसा तु एकेन श्लोकेनाढ्यया द्वात्रिंशत्या ग्रन्थसंख्या प्रोक्ता तदुक्तं भवति यानि वृत्तानि वद्धानि सन्ति तानि षट्त्रिंशदधिकं शतमेव १३६ यदा तु द्वात्रिंशदक्षराणामेकः श्लोक इति गणनया ग्रंथसंख्या क्रियते तदा शतद्वयमेकं श्लोकाधिक २०१ भवतीति इति श्री वल्लाल देवज्ञात्मज श्रीकृष्णदैवज्ञविरचित्ते श्रीपतिभट्टीयजातकपद्धत्युदाहरणेप्रकीर्णकाध्यायोष्टमः समाप्तोऽयं ग्रन्थः ।। संवत १८३६ वर्षे शाके १७०४ प्रवर्तमाने माघमासे शुक्लेतर कृष्ण पक्षे प्रतिपदा १ कर्मवाट्यां तिथौ रविवासरे पुष्यनक्षत्रे प्रीतिनामा योगे कौलव करणे मेष लग्ने लिषतं श्री जालोर नगरे श्रीमत्तपागच्छे सकल पंडित प्रवर पंडित भालस्थलतिलकायमान पंडित श्री श्री १०८ श्री अमृतविजयगणी ततशिष्यपंडित श्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018018
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 6
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages242
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy