________________
Catalogue of Sanskrit & Prakrit Maau scripts Pt. VI (Appendir
141
यत्प्रान्तेषु विलम्बतेऽति-महति-प्रीता प्रतापावलिर्यन्मध्ये परिमण्डलत्त्वमभजद् चित्रां विधोमण्डलम् ॥५१।। यस्मिन् यच्छति वाञ्छिताधिकवनान्याशासने भिक्तका प्राणानामति संख्यतामतिशया यामं परां विस्मृतिम् ।। नैर्बुध्यादिति गर्हणां विदधते धातुश्च बाहुन्बहून्यद्वारणात्तु न यो व्यधाद्विभुजिनामस्माकमत्रासनः ।।५२।। भिक्षुः पाणि पुरस्तादुपनयति सतः पारिणयुग्मं ततश्च प्रावारान्तं ततस्तं सकल-मसि-जितो-मस्तकस्याधिवासः । पौत्रं तत्राप्यनाति-प्रचुरतरतया यद्वितीर्णे धनौघः पश्चात्तापं महान्तं निजहृदि कुरुते तुर्य वर प्राग्रहेण ॥५३॥
(स्वल्पपारिण-प्रकाशात्) । ५३॥ लक्ष्मीर्यस्य कराम्बुजेऽमलसुधाकीतिः कवीनां मुखे कान्तिः कामतनौ धृतिहिमगिरौ विद्या सुवाचस्पती॥ एकत्र-स्थिति-संकटाऽक्षमतया विशृम्भतः स्वं श्रम लेभे तातगृहे विनोदयति किं सापत्न्यजान्मत्सरात् ॥५४।। यस्योत्सर्ग-जल-प्रवाह-पटलै-राकालिक प्रावृषा पूर्णाम्भ: सुरनिम्न गोमि-निव हैरुन्मत्त-गङ्गीकृता ।। वाराणस्यभवद्यदा बहु तदा मत्स्योदराऽऽसङ्गिनः भ्रान्त्या काशिनिवासि-सर्वजनता स्नाति प्रभा पिस्मिता ॥५५।। एकं तावदिदं महन्मनसि नो नौचित्यमुद्भासते यद्दानाम्बुभिराहितेषु जलधिष्वन्येषु सप्तस्वपि ।। एषां प्राकृतवैकृतादि-विषय-भ्रान्त्या भ्रमन्त्यो दिशं गङ्गाद्याः सरितः पतिव्रतमहो धास्यन्त्यनग्नाः कथम् ।।५६।। असोष्ट सोप्यष्ट गुणं गुणोघः
सुतद्वयं पावक-नामिकायाम् ।। लक्ष्म्यां सपन्यामिव धर्मपल्यां
आराधनाद्वावरसः शिवस्य ॥५७।। ज्येष्ठस्तस्य समात्तिभागमृत-वत्कण्ठे द्विजिह्वान्निजान् देशादप्यपसारयत्यनुदिनं पुष्णाति कामान् बहून् ।। मृद्वच्छः पिशितोदधद्विजपतीन् गोर्यो यदीया दिशः कीतिर्धावति कोप्यसौ विजयते रुद्रोऽरिविद्रावरणः । ५८ ।
किशोरकस्यैव यशो-वितानं
यशोऽनयत्तस्य दिशो दशोऽपि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org