________________
Cata'ogue of Sanskrit & Prakrit Manuscripts Pt. VI (Appendir)
137
एतत्प्रौढ़-प्रताप-ज्वलन-परिवृताऽऽशेष विद्विट् पुराणां दूरादालोकमात्राद्बलिसुत-नगर-भ्रान्ति-भीता परावः ।। प्रत्यावृत्यापयान्ति प्रबलतर-नृपास्मत्पुराणामधीशाः स्थातु वान्तप्रयातु बहिररिदहन-त्रासतो नोत्सहन्ते ।।१७।। नित्यं सत्याऽनुरक्त सततमनुगतं यो बलेनानुगृह्ण वन् गोपान् कोपानलस्य प्रशमन-विधिनाऽऽनन्दपुष्टान् सदीव ।। प्रापिलष्टो यः सुदाम्ना बहुषु सहचरेषूद्धवं वर्धयिष्यन् । स श्रीमान् केशवोऽयं जयति कुवलयाऽऽपीड़-निष्पीड़नाय ।।१८॥ मित्राणामुदयाचलो रिपुकुलस्यास्ताचलः शीतलो बन्धूनां मलयाचल: शरणिनां विन्ध्याचलश्चाभये ।। भिक्षूणां धनरत्तसम्पदुदये रत्नाचलो धारणे
पृथ्व्या यः कनकाचलो मुनिजनैः सिद्ध स्तुषाराचलः ।।१६।। 'शूराणामवधिः सङ्ग्रामे परिधिबलस्य जयति श्रीकेशवः सन्निधिः ॥२०॥
गाम्भीर्येण सरित्पतिः सुमहता धैर्येण भूभृत्पतिः लक्ष्म्या यक्षपतिः श्रिया तिपतिर्बुद्ध्या च वाचस्पतिः ।। साम्राज्येन दिबस्पतिः स्वमहसां पुजेन बार्हष्पतिः शीलेनोडुपतिर्बभौ सममतिः श्रीकेशवः क्षमापतिः ।।२१॥ दुःखानां महिमा सदस्सु लधिमा कीर्तिस्तथैवाऽरिणमा लज्जाया गरिमा पलायन-विधौ प्राकाम्यमात्मेशिता ॥ प्राप्तिः पर्वतकन्दरस्य वशितावन्याहृतः भूपतेश्चित्रं यस्य तपः फलं रिपुकुले सिद्ध्यष्टकं दृश्यते ॥२२॥ अक्रूर: सुहृदां भवत्यसुहृदां यश्चोग्रसेमो रणे दुष्टानामपसारण: सुमनसां प्रद्योतने माधवः ।। शत्रूणां हृदये गदः प्रतिजिह्वाद्वयं बिभ्रता वभ्र ोनिशकः (निकष:) शठेषु विषययश्चानिरुद्धः सदा ॥२३॥ स श्रीमान् केशवेन्द्रो जगति विजयते यद्विषत्कीति-दुग्धं यद्दानाम्भ-प्रवाहोद्भवपृथुतटिनी-तीरनीरानुषङ्गि । तदिग् जैत्रपूर्व क्षितिभृदुर-यशः कन्दखण्डोपदंशं स्वादं स्वाद पिबन्ति प्रमुदितमनसो यद्यशो राजहंसाः ।।२४।। यत्कीर्त्या निजया विधू रविमपि स्वीयः प्रतापः परं चक्रेऽसौ नृपतिश्चतस्य विधितोऽप्यत्यद्भुतं कौशलम् ।। यद्राहुं
सममोहयद्रवि-शशिग्रासार्थ-मन्युद्युतं पश्यन्तं सदृशाबुभावपि मुहुः प्रेक्षा-विशेषैरपि ॥२५॥
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only