________________
172
Catalogue of Sanskrit & Prakrit Manuscripts P. V (Appendic)
Closing:
Colophon:
Post-colophonic:
पूर्व श्रीकृष्णदेवस्य प्रभुत्वं प्रतिपाद्यते । ततोस्य भजनीयत्त्वं ततस्तत्स्थानमद्भुतम् ॥ २ ततो भक्तिप्रकारश्च ततस्तद्भक्तिलक्षणम् । ततः सेवाप्रकारोस्य प्रसादमहिमा ततः ।। ३ ततोन्नादिकपावित्र्यं ततः प्रेम विलक्षणम् । ततो महोत्सवाः सर्वे साधुलोकसुखप्रदा: ।। ४ एवं दशभिरुल्लासः कथयामि यथामति।
सर्वशास्त्रविनिर्णीत मर्थं स्वार्थस्य सिद्धये ॥ ५ ग्रंथो (थं) भक्तिरहस्यनामकमिमं श्रीमल्लिनाथो व्यधात्,
नानाग्रंथमतं विलोक्य मनसा हर्षाय हर्यात्मनाम् । तुष्येताममुना मनोज्ञयमुनातीरस्थकुजप्रियौ,
राधानंदकिशोरको निजजनानंदप्रदानोत्सुको ।। ३५० युग्मेंदुरसचंद्राब्दे तपस्ये दशमीतिथौ ।
कृष्णा मूलसुभे शौ(सौ)म्ये ग्रंथोयं पूर्णतामगात् ।। ३५१ इति श्रीमद्भक्तिरहस्ये श्रीराधाकृष्णमहोत्सवकथनं नाम दशम उल्लासः ॥१०॥ समाप्तोयं श्रीभक्तिरहस्यनामको ग्रंथः ॥
लिखितं पुजारी मुकंददास संवत् १८४५ फाल्गुन मासे कृष्णपक्षे तिथी अष्टम्यां ८ मंगलवारे समाप्त । शुभमस्तु । कल्याणरस्तु ।। ११ 1011/23499 बालार्चनदीपिका-पद्धति
॥ श्रीगणेशायनम : ।। नत्वा गुरुपदांभोज साधकानंदहेतवे ।
बालार्चनविधि वक्ष्ये संप्रदायानुसारतः । १ अथ साधकः श्रीमान् ब्राह्म मुहूर्ते शयनतलादुत्थाय स्वचरणौ प्रक्षाल्य निजासने समुपविश्य शिरसि सहस्रदलकमले स्वगुरु ध्यायेद्यथा----- श्वेतं श्वेतविलेपमाल्यवसनं वामेन रक्तोत्पलम्,
बिभ्र त्या प्रियया करेण रभसा श्लिष्टं प्रसन्नाननं । हस्ताभ्यामभयं वरं च दधतं शंभुस्वरूपं परं,
हालालोलितलोचनोत्पलयुत घ्यायेच्छिरस्थं गुरुमिति ।। इति छिद्रावरणम् अवधार्य विशेषार्घमुत्तोल्य पूर्ववत् गुरु संतl स्वीकृत्य प्रभोज्य वीरान् दक्षिणादिभिः संतोष्य यथासुखं विहरेदिति ।
आनंदानंदनाथेन पूर्णानंदेन येतसा ।
बालार्चनदीपिकारव्या क्रियते गुर्वनुज्ञया । इति आनंदनाथविरचितायां बालार्चनदीपिकापद्धति ज्ञेयम् ।
Opening:
Closing.
Colophon;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org