________________
Closing:
Colophone :
Opening:
Closing :
Jain Education International
APPENDIX
(Extracts from Important Manuscripts)
410/22269 प्रजितशांतिस्तव वृत्ति ( ताडपत्र ) श्री गौतमस्वामिने नमः ।
अजित शांतिजिनो भुवनत्रये विजयशांतिविधाप्रथितौजसौ । समभिनम्य तयोः स्तवसंगतं विवरणं विदधे किमपि स्फुटं ॥। १ तेषां युगप्रवरसूरिजिनेश्वराणां शिष्यः स्वधम्मंतिलको मुनिरादधाति । व्याख्यामिमामजितशांतिजिनस्तवस्य स्वार्थं परोपकृतये च कृताभिसंधि ॥ २
युग्मं ॥
विचक्षण ग्रंथसुवर्णमुद्रिकाविचित्रविच्छित्तिभृतो विनिर्मिता: । यदीयनेत्रोत्तम रत्नभागतः श्रियं लभते कृतिमंडले पराम् ॥ ३ तः श्रीमल्लक्ष्मीतिलकोपाध्यायैः परोपकृतिदक्ष: । विद्वद्भिर्वृत्तिरियं समशोधितरां प्रयत्नेन ॥ ४
नयन कर शिखीन्दुमिते विक्रमवर्षे तपस्यसितषष्ठ्याम् । वृत्तिः समर्थितास्या मानं च सविंशतिस्त्रिशती ॥ ५
इति धर्म्मतिलकमुनिविरचिता श्रीउल्लासियुग्मस्तोत्रवृत्तिः समाप्ता ॥ छ संवत् १३१२ फागुरण सुदि ६ | ग्रंथा ३२० ।
452/22807 (1) यमकस्तुति जिनयशः प्रतापास्तपुष्पदन्तसमन्ततः । संस्तुवे यत्क्रमी मोहंपुष्पदंतं समन्ततः ।। १ प्रातस्तेऽह्रिद्वयीजयेन सरोजास्यसमानता । त्वयास्तु जिनधर्माब्जसरोजास्यसमानता ॥ २ वंदे देवं चफलोत्पत्तिव्रतकेवलनिर्वृतिम् । विश्वाचितं फलोत्पत्ति व्रतकेवलनिर्वृतिम् ।। ३ चतुरास्यं चतुःकायं चतुर्द्धा वृषसेवितम् । प्रणमामि जिनाधीश चतुर्द्धा वृषसेवितम् ॥। ४ ये जिनेंद्रान्नमस्यति सांप्रतातीत भाविनः । दुष्कृतास्ते विमुच्यते सांप्रतातीतभाविनः ।। ३५ परात्मानो जिनेंद्रा येनयन्ते मानसं प्रति । पदं यांति जगन्मानं नीयते मानसं प्रति ।। ३६
For Private & Personal Use Only
www.jainelibrary.org