________________
प्रशस्यादिसंग्रहः।
[८३ संवत् १८७३ वर्षे कार्तिक सुदिप्रतिपदातिथौ सोमवासरे सिहोरमध्ये ॥
टबा अन्तः-सकलपण्डितचक्रचूडामणिपण्डितश्रो १९ पं० श्रीरत्नविजयजोगणी तच्छिष्यपण्डिततिलकायमानं श्री१० पं०श्रीदर्शनविजयगणी तच्छिष्यपण्डितश्रीनेमविजयगणी तच्चरणसेवी पं०विनयविजयगणो निखितं स्वआत्मार्थे इदं पोषसुदप्रतिपदातिथौ ॥
[762] अन्तः - इति श्रीखरतरगच्छे श्रीजिनराजसूरिशिष्योपाध्यायश्रीजयसागरविरचिते श्रीपृथ्वीचन्द्रचरिते एकविंशतिभववर्णनो नाम एकादशः प्रस्तावः ॥११॥
श्रीवीरशासनाम्भोधिसमुल्लासनशीतगोः । सूरेरभयदेवस्य नवाङ्गीवृत्तिवेधसः ॥१॥ पट्टालंकारसारश्रीसूरिश्रीजिनवल्लभः । संताने तस्य शस्यात्मा श्रीजिनोदय पूरिराट् ॥२॥ तत्पशाभृवक्षःस्थलकौस्तुभसंनिभः । श्रीजिनराजसूरीन्द्रो योऽभूद् दीक्षागुरुभम ॥३॥ तदनु श्रीजिनवर्द्धनसूरिः श्रीमानुदैदुदारमनाः । लक्षण साहित्यादिग्रन्थेषु गुरुर्मम प्रथितः ॥४॥ श्रीजिनभद्रमुनीन्द्राः खरतरगणगगनपूर्णचन्द्रसमः । ते 'चोपाध्यायपदप्रदानतो मे परमपूज्याः ॥५॥ श्रीजयसागरगणिना तेन मया वाचकेन भुवि भाव्यम् । पृथ्वीचन्द्रचरित्रं विरचितमिह विरतरं सकलम् ॥६॥ प्रह्लादनपुरनगरे त्रि-बिन्दु-तिथि(१५०३)वत्सरे कृतो ग्रन्थः । माल्हूश्रावकवसतौ समाधिसंतोषयोगेन ॥७|| अभ्यर्थना सत्यरुचेर्बभूव साहाय्यकारी गणिरत्नचन्द्रः । उपक्रमोऽयं फलवान् ममा भूत् क्रिया हि साहायकसव्यपेक्षा ॥८॥ यद् गदितमल्पमतिना न्यूनाधिकमर्थजातमिह किञ्चित् । विद्वद्भिरम कधीभिः प्रसादमाधाय तच्छोध्यम् ॥९॥ अनुष्टुभां सहस्र द्वे संपूर्णानि शतानि षट् । चतुःपञ्चाशदन्यावग्रन्थमानमुदाहृतम् ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org