________________
प्रशस्त्यादिसंग्रहः ।
चन्द्रकुले श्रीखरतरगच्छे जिनचन्द्रसूरिनामानः | जाता युगप्रधानास्तच्छिष्यः सकलचन्द्रगणिः ||२|| तच्छिष्यसमयसुन्दरगणिना चक्रे च स्तम्भतीर्थपुरे । दशवैकालिकटीका शशि-निधि-शृङ्गार (१६९१) मितवर्षे ॥३॥
अर्थस्यानवबोधेन मतिमान्द्यान्मतिभ्रमया ।
जिनाज्ञा विपरीतं यत्तन्मिथ्यादुष्कृतं मम ||४|| ममोपरि कृपां कृत्वा शोधयन्तु बुधा इमाम् । परोपकरणे यस्मात् तत्परा उत्तमा नराः ॥ ५ ॥ टीकाकरणतः पुण्यं यन्मयोपार्जितं भवेत् । तेनाहमिदमिच्छामि बोधिरस्तु परत्र मे || ६ || शब्दार्थवृत्ति टीकायाः श्लोकमानमिदं स्मृतम् । सहस्रत्रयमग्रे च पुनः सार्धचतुःशतीम् ||७|| इति श्रीदशवैकालिकशब्दार्थवृत्तिः श्रीसमय सुन्दरोपाध्यायविरचिता समाप्तेति ॥ [177]
अन्तः- श्रीमत्तपा गणनभोऽङ्गणभास्कराभ-श्रीदेवसुन्दरयुगोत्तमपादुकानाम् । शिष्यैर्जि नागमसुधाम्बुधिलीनचित्तैः श्रीज्ञानसागरगुरूत्तमनामधेयैः ॥ विधि-वह्नि-मनु (१४३१)मितेऽब्देऽवचूर्णिरेषा कृतौघनिर्युक्तेः । स्वपरोपकृतिकृते तद्वृत्तेरुपरि स्फुटा जयतात् ॥२॥
[184]
अन्तः -- लिखितं पत्तननगरे || इति श्रीजिनप्रभसूरिविरचिता महायमकमया चतुर्विंशतितीर्थङ्करस्तवनावचूरिः । यादृशं० ॥
लिखितागममाणिक्यमुनिना । श्रीतपागच्छनायक भट्टारक प्रभुसुविहिताचार्यशिरःशेखरपरमपरमाराध्यश्री रत्नशेखरसूरिपट्टपूर्वाचलप्रभाकर श्रीलक्ष्मीसागरसूरिशिष्यविबुधावतंस - पं० जिनहंसगणिविजयराज्ये ॥४॥
[190] [ प्रत्यन्तेऽन्यदीयहस्तेन लिखितमिदम् - ] संविग्नान्तिषदा तपगणपतिविजयसेनसूरीणाम् ।
[ ५३
श्री रामविजयकृतिना चित्कोशे प्रतिरियं मुक्ता ॥१॥ [ 191 ]
अन्तः - - इति श्रीमद्वृद्धपण्डितश्री ५ श्रीदेवविजयगणिशिष्य पं० जयविजय - गणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीवर्धमानस्वामिनः व्याख्या || २५ || इति शोभनस्तुतिवृत्तिः संपूर्णा । अथ प्रशस्तिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org