SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ [ ३७ प्रशस्त्यादिसंग्रहः। संवति विधिमुख-निधि-रस-शशि(१६९४)संख्ये दीपपर्वदिवसे च । जालोरनामनगरे लुणिया कसलार्पितस्थाने ॥२॥ श्रीमत्खरतरगच्छे श्रीजिनचन्द्रसूरयः ।। तेषां सकलचन्द्राख्यो विनेयः प्रथमोऽभवत् ॥३॥ तच्छिष्यसमयसुन्दर एतां वृत्तिं चकार सुगमतराम् । श्रीजिनसागरसूरिप्रवरे गच्छाधिराजेऽस्मिन् ॥४॥ यः कोऽपि मत्सरी मूढः प्रशस्ति न लिखिष्यति । स लोके लप्स्यते निन्दा कुणिर्भावी परत्र च ॥५॥ इति वृत्तरत्नाकराख्ये छन्दसि । श्रीसमयसुन्दरोपाध्यायविरचितायां वृत्तरत्नाकरसुगमवृत्तौ षष्ठोध्यायः संपूर्णः ।। ग्र० १३००॥ ___ संवत् १७१५ प्रमिते श्रावणवदिपञ्चमीतिथौ पं० श्रीराजसुन्दरगणिशिष्यभुजिण्यपं० रूपसुन्दरगणिनाऽलेखि श्रीजयतारणनगरे । [1269 ] अन्तः---श्रीलब्धिवर्धनमुनेविनयी विनेयो विद्यावतां क्रमसरोजपरीष्टिपूतः । चक्रे यथामति शुभां शिवचन्द्रनामा वृत्ति विदग्धमुखमण्डनकाव्यसत्काम् ।।१।। नन्दतु-भूपाल(१६६९)विशालवर्षे हर्षेण वर्षात्ययहर्षदर्ती । मेवाति देशे लवराभिधाने पुरे समारब्धमिदं समासीत् ॥२॥ विख्यातः शासनेऽस्मिन् प्रवरखरतराभिख्यगच्छो गरीयान् यस्मिन् योगेन्द्रमुख्या जिनकुशलवराः सूरयः संबभूवुः । चारित्राचारचञ्चुर्विहितयतिनतिः सूरिराड् जैनसिंहः सिंहो वादिद्विपानां श्रुतजलजलधिः शास्ति भट्टारकत्वम् ॥३॥ श्रीलब्धिवर्धनमुनिर्महिमैकमेरुः श्रीजैनसिंहसुगुरोरजनिष्ट शिष्यः । येषां कुशाग्रधिषणा सुपदप्रविष्टा शिष्याः समीयुरवनीशसमाजभाजः ।।४।। ऊकेशवंशे परिलब्धजन्मा जग्राह दीक्षां विधिवद् गणेऽस्मिन् । भ्रातुः क्षमाचन्द्रगणेर्निदेशवृत्तिं प्रकुर्वे शिवचन्द्रनामा ॥५॥ अथाग्रे कविना गर्वापहारःक्रियते यत् किञ्चिदिह विरुद्धं यदशुद्धं वा व्यलेखि मतिमान्द्यात् । कृत्वा मय्यनुकम्पां तच्छोध्यं धीधनैः सदयैः ॥६॥ इति श्रीधर्मदासकविविरचिते विदग्धमुखमण्डने काव्यालङ्कारे श्रीबहत्खरतरगच्छे पण्डितश्रीलब्धिवर्धनमुनेः शिष्यशिवचन्द्रेण कृता सुबोधिका नाम चतुर्थपरिच्छेदस्य वृत्तिः ॥ वृत्तेः प्रमाणमिदम्-२५०४ ग्रन्थाग्रमेतद् विज्ञेयं लोकैरित्यलम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy