SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः। जगति जयन्ति गरिष्ठा गुरवः श्रीदेवसुन्दरमुनीन्द्राः । संप्रति निष्प्रतिमगुणप्रभाप्रभावाद्भुता विदिताः ॥८॥ ये जिनवचनसुधाञ्जनवशेन शिष्यस्य मादृशस्यापि उद्घाटयन्ति लोचनमान्तरमज्ञानतिमिरभृतम् ॥९॥ तस्याः पुनरालेखे चित्रकलाकौशलेन विकलोऽपि । तैः स्वविनेयकनिष्ठोऽप्यादिष्टोऽयं ततो यतते ॥१०॥ यद्यपि साहसमेवं कुर्वन् हास्योऽस्मि तदपि किं कुर्वे । यन्मामत्र प्रसभं प्रेरयति गुरुप्रसादोऽयम् ॥११॥ इह दुःषमान्धकारनिमग्नजिनप्रवचनप्रदीपायमानश्रीजिनभद्रगणिक्षमाश्रमणविरचितो जीतकल्पोऽतिसंक्षिप्तः । निशीथ-भाष्यादि-छेदग्रन्थश्चातिमहान्तो दुरवगाहाश्च, अतः साध्वनुग्रहाय पूज्यश्रीसोमप्रभसूरयः किञ्चिद्विस्तरप्रायश्चित्तविधिप्रतिपत्तये प्रायो जीतकल्प-निशीथाद्यन्तर्गतगाथाभिरेव यतिप्रायश्चित्तविभागाविर्भावकं जीतकल्पनामकं प्रकरणं चिरन्तनजीतकल्पात् किञ्चित् समधिकगाथाकदम्बकं कृतवन्तः । __अन्तः-- इत्येवंप्रदर्शितप्रकारेण जीत-निशीथाद्यनुसारेण यतिजीतकल्पः । निशीथं कल्पाध्ययनं, आदिशब्दात् कल्प-व्यवहाराध्ययनसामाचारीपरिग्रहः । एतेषां महाग्रन्थानामनुसारेणानुगमनेन यथा एतेषु महाग्रन्थेषु प्रायश्चित्तं प्रतिपादितं तथैवात्रापीत्यर्थः । यतीनां प्रायश्चित्तं लेशेनांशेन स्व-परहितनिमित्तं भणितं प्रतिपादितम् । इदं च यद्यपि परमागमानुसारेणैव भणितं तथापि गीतार्थः श्रीनिशीथादेः छेदग्रन्थधारिणः शोधयन्त्वपनयन्त्वत्र दूषणानि प्रमादादिजनितानि । अत्र च जीतकल्पसूत्रे पुरातनजीतकल्पसूत्रगता एव तद्रपाः कियत्यो गाथाः सन्ति । कियत्यः पुनः श्रीनिशीथादिग्रन्थानुगतास्तद्रूपा एव । कियत्यस्तु श्रीनिशीथादिमहाग्रन्थतार्थलेशग्रहणेन प्रथिताः। कतिपयाः पुनः सुखप्रतिपत्त्यर्थं पुरातनजीतकल्पगतमुकुलितार्थविस्तारणेन विरचिताः । स्वल्पाः पुनः सुविहितजनाचीण जीतानुगतसामाचारीगताः। एतासां गाथानां विवरणमपि प्रायस्तद्रूपमेव तत्तद्ग्रन्थगतमत्र लिखितमस्तीत्यवगन्तव्यम् । इदं चैवंविधं जीतकल्पसूत्रं कालानुभावतः प्रायो निराधारपारमैश्वर्यप्रवचनाधारभूतैः निर्मलसंयमकमलाहृदयालंकारहारकल्पैः सकलसुविहितवातशिरोमणिभिः परमगुरुश्रीसोमप्रभसूरिभिः पवित्रचारित्रैकतानमानसैः मन्दतरमेधाधारणावगमविनेयजनानुग्रहार्थमेवामुद्रसकलपरमागमसमुद्रमहाप्रयत्नेनावगाह्यामृतकल्पं प्रकटमकारीति । वर्षे तर्क-शराब्धि-चन्द्र(१४५६)गणिते श्रीविक्रमादि गते गुर्वादेशवशाद् विलोक्य सकलाः कल्पादिशास्त्रावलीः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy