SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । ___ [४३५ इति श्रीमच्छुक्लोपनामकहरिभानुभाषितजातकालंकारटीकायां जातकालंकार[श्री]समाख्यायां वंशाध्यायः ॥७॥ इति श्रीजातकालंकारटीका समाप्ता । सं० १९०० मि० मा० ब० ८ शनिवासरे लिखितं श्री१०८श्रीमत्पूज्याचार्यश्रीमद्रामचन्द्रस्वामीजीका शिष्यहीराऋषि लिपीकृतं वैरोवालमध्ये ख-ख-निधीन्दु(१९००)वर्षेऽस्मिन् माघे कृष्णेऽष्टमीशनौ जातकालंकृतेः टीका वर्षिणा लिपीकृता ।। [6849] आदिः- प्रभवविरतिमध्यज्ञानवन्ध्या नितान्तं विदितपरमतत्त्वा यत्र ते योगिनोऽपि । तमहमिह निमित्तं विश्वजन्मात्ययाना मनुमितिमभिवन्दे भग्रहैः कालमीशम् ॥१॥ विलोक्य गर्गादिमुनिप्रणीतं वराहलल्लादिकृतं च शास्त्रम् । दैवज्ञकण्ठाभरणार्थमेषा विरच्यते ज्योतिषरत्नमाला ॥२॥ अन्त:- इति ललितसुवृत्तां निर्मला रत्नमाला मुदहरदधिकार्थी सद्गुणां रत्नकोशात् । निजगुरुपदभक्तः श्रीपतिः शास्त्रदर्शी चतुरगणककण्ठे राजतामुज्ज्वलश्रीः ॥११॥ सुवृत्तया श्रीपतिबद्धयाऽनया कण्ठस्थया निर्मलरत्नमालया । अलक्षणोऽप्यर्थपरिच्युतोऽप्यलं सभासु भूम्ना गणको विराजते ॥१२॥ भ्रातरद्यतनविप्रनिर्मितं शास्त्रमेतदिति मा वृथा त्यज । आगमोऽयमृषिभाषितार्थतो नापरं किमपि कीर्तितं मया ॥१३॥ वृ० आदिः- प्रणम्य भानुं त्रिजगन्नमस्यमशेषसर्गस्थितिनाशहेतुम् । दैवज्ञबोधाय मृदुस्फुटार्था व्याख्यायते ज्योतिषरत्नमाला ॥१५॥ आमशर्मप्रसादेन्दुविवृद्धमतिवारिधिः । महार्थी विवृणोम्येष रत्नमाला-नान्तरम् (१) ॥२॥ तत्र सतां तावदयमाचारो यत्प्रवक्तृश्रोत्रध्येतृणामात्मनश्चाशेषान्तरायोपशमायेष्टदेवतानमस्कारः ॥ तदयमपि काश्यपवंशपुण्डरीकमार्तण्डः समस्तमौहृतिकचक्रशिरोमुकुटमाणिक्यकान्तिनीराजितपदद्वन्द्वो महाकारुणिकः श्रीश्रीपतिनामा श्रीकेशवस्य पौत्र: श्रीनागदेवस्य पुत्रो ग्रहगणित-पाटीगणित-बीजगणि तरूपसुनिश्चलमूलस्य बहुविद्यविततहोरातन्त्रशाखस्य ज्योतिःशास्त्रवनस्पतेः संहिता एव फलतीत्यवधार्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018008
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy