________________
१. प्रशस्त्यादिसंग्रहः।
[6674] आदिः- एर्दै ॥ श्रीगुरुभ्यो नमः ।।
ब्रह्मेशाच्युतचन्द्रवित्सितरविक्षोणीसुतेज्यार्कजान्छ । अन्तः- आसीदृषिः संनिहितान्ध्रवासी श्रीमद्गुरुर्ब्रह्मविदां वरिष्ठः ।
तस्यान्वये वेदविदां प्रकृष्टः श्रीभानुनामा रविवत् प्रसिद्धः ॥१८॥ तस्योत्पन्नः प्रवरतनयो विष्णुनामा मनीषी
वेदे शास्त्रे प्रबलमतिमान् तस्य पुत्रो बभूव । श्रीवत्साख्यो धनपतिरसौ कल्पवृक्षोपमानस्तस्यैकोऽभूत् प्रवरतनयो रिहकाख्यश्च विद्वान् ॥१९॥
॥ इति आशाधरः सम्पूर्णः ।। पातश्च वत्सरगतिर्वियदक-चन्द्र-भूमि-द्विको युग-गुणाः खलु राशिपूर्वाः । । क्षेप्या वियत्शशिकरा मुनयः सराक्षां पातोभचक्रपतितो भवतीह राहुः ।।
[6694] आदिः- शम्भु स्वयम्भुवमहं प्रणिपत्य पूर्व नाभ्युद्भवं विगतकर्मरजोवितानम् ।
यो धर्मभूरुहघनो धृतवान् सुभव्यक्षेत्रेऽत्र बोधिपवनाय महोक्षलक्ष्म ॥१॥ यः शान्तकान्तवपुरागमयत्वबोधं श्रीभव्यकैरवकुलम्बित(?)मस्कपङ्कम् । पक्षद्वयोपचितभानुरभानुसंगस्तं निष्कलङ्कमभिनम्य नवं मृगाङ्कम् ॥२॥ सुरनरसमुचितमानसन्मानं यदनुभावतो भवति । चामातनयं वामं वामहरं तं समभिसृत्य ॥३॥ श्रीवर्धमान इह विश्वविवृद्धमानः कर्माभिजातिभिदुरो विदुरो दयालुः । यो दुष्टदुःखकरिजातविघातहेतोः सिंहं दधौ विनमतां शिवशर्मणेऽस्तु ॥४॥ बालेऽप्यनुग्रहवती कविशंकरस्य स्तन्येन वत्सलधिया वदतोऽनुवेलम् । आपन्मतङ्गभिदुरं दधती मृगारिं सा शारदा मम सदा वरदाऽस्तु देवी ॥५॥ गणपतिरगणितमानोऽवगणितविघ्नोऽपि मामवन् सततम् । भ्रमरितसुरनरसेवितचरणसरोजद्वयो जयतु ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org