________________
प्रशस्त्यादिसंग्रहः ।
[४०५ सर्वदेशप्रसिद्धा ये सर्वशास्त्रविशारदाः । न ते कस्यां हि भाषायां जायन्ते दोषभाषिणः ॥४॥ सच्छोत्रिया ब्रह्मविदां वरेण्या वरेण्यवाचोऽयमपि प्रपञ्चः । निश्चित्य चैवं गिरमारभन्ते प्रतापभट्टोऽप्यलिखन्नवोचत् ॥५॥ सर्वज्ञतेति पदमस्त्विह चेत् प्रसिद्धयै नाज्ञानृतापि विषये विदुषः क भानुः । उक्तेरितीलवरणेशहरिभ्रमस्य नामालिमाशु लिखति स्म सुधीः स लक्षः (?)॥६॥
[6226] आदिः-प्रणम्य परमप्रीत्या पञ्च श्रीपरमेष्ठिनः ।
'परिग्रहारम्भमग्ना' इति श्लोकं विवृण्महे ॥१॥
प्राचीनार्वाचीनाचार्यचकचक्रवर्तिभिः श्रीमत्तपागच्छाधिराजैः महामहीपतिवितीर्णविस्तीर्णसन्मानैः श्रीहीरविजयसूरिभिः शतार्थपरीक्षाकृते समर्पितस्य श्रीयोगशास्त्रद्वितीय- . प्रकाशद्वादशस्य श्लोकस्य शतार्थी क्रियते । तत्र तावच्चतुविंशतिजिना वर्ण्यन्ते ।
अन्तः-श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरश्री ६ श्रीहीरविजयसूरीश्वरराज्य पं० कविकविचक्रचक्रवर्त्तिपण्डितश्री६श्रीबुद्धिसागरगणिशिष्यपं० श्रीमानसागरगणिकृतं समाप्तं शतार्थविवरणमिति ।
पाञ्चाली किल पञ्चमी गतिरिय तां सेवितुं येऽभवन्
पञ्च श्रीपरमेष्ठिनां प्रतिदिनं पञ्चापि पाण्डोः सुताः । उद्यच्छारदशीतधामधवलास्तेषां प्रसादादियं
सम्पूर्णा समभूच्छतार्थविवृति नार्थरत्नावली ॥१॥ मेषोन्मेषवियोगाभावाद् भुवनेऽत्र सन्ततिः सततम् । वर्तिष्यते यदीया जयति सुधर्मा स गणनेता ॥२॥ तत्पट्टनिकषपट्टे सुवर्णवर्णेय॑धान्निजामभिधाम् । श्रीहीरविजयसूरिः सूरीणामग्रणीर्जयति ॥३॥ तारागणाधिपत्यं श्रयति शशी सोऽपि शर्वरीसमये । शशिगणनाथत्वमहो दिवानिशं श्रयति सैष गुरुः ॥४॥ स्वाङ्गसदनेऽप्यमातां स्वगुणानां नित्यमेधमानानाम् । वेश्मान्तरं विदध्रे येन श्रीविजयसेनमिषात् ॥५॥ सिंहस्य सुतः सिंहो भवेदित्युक्तिरेवैतद्गुणान् बिभ्रत् । श्रीहीरविजयसूरिय॑भाद् विजयदानगुरुपट्टे ॥६॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org