________________
३७०]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे कविकल्पद्रुमो नाम पधैर्निष्पाद्यतेऽत्र च । धातवः पठिनाः पाठसूत्रलोकागमस्थिताः ॥४॥ इति स्फीतः सप्तदशशत्या षट्कोनषष्टया । धातुस्कन्धैर्बुधाः सेव्यं कविकल्पद्रुमं फलम् ॥५॥ विद्वद्धनेशशिष्येण भिषक्केशवसूनुना ।
तेनेवेदं पदस्थेन बोपदेवद्विजेन यः ॥६॥
अन्तः- इति श्रीपण्डितराजचक्रचक्रवर्तिबोपदेवविरचितः कविकल्पद्रुमो नाम धातुपाठः समाप्त आप्तोक्तः ।।
[5848 ] अन्तः- इत्युपाध्यायसर्वधरविरचिता या त्याद्यन्तप्रक्रिया समाप्ता ।
संवत् १५०१ वर्षे माघसुदि पञ्चमी सोमे श्रीखरतरगच्छे श्रीजिनेश्वरसूरिसन्ताने भ०श्रीजिनधर्मसूरीणां शिष्यो देवचन्द्रगणिस्त्यावन्तप्रक्रियामलिखत् श्रीसरस्वतीपत्तने सुशिष्याणां पठनाय ॥
. [5851] अन्तः- इत्युपाध्यायसर्वधरविरचितायां स्यायन्त प्रक्रि या ]यां लिङ्गकाण्डः षष्ठः समाप्तः ॥
- श्रीनृपविक्रमादित्यसंवत् १४७८ वर्षे वैशाखसुदिद्वादश्यां १२ सोमवासरे श्रीखरतरगच्छे श्रीजिनकुशलसूरिसन्ताने भट्टारकश्रीजिनेश्वरसूरीणां भट्टालङ्कारचूडामणिश्रीजिनशेखरसूरयस्तेषां आचार्यश्रीकीर्तिसागरसूरीणां शिष्येण धर्मशेखरेणात्मपठनार्थं श्रीस्यादिपुस्तक लेखितं पण्डितपुरुषोत्तमेन लिखितम् ॥
[5853] • आदिः- जयति जिनवरेन्द्रप्रवचनम् ॥ जयत्यनेकान्तकण्ठीरवः ॥ जयन्तु श्रीमन्तः प्रवर्तकश्रीकान्तिविजयास्तच्छिष्याश्च श्रीमन्तश्चतुरविजयाः। श्रीवासुपूज्याय नमः।
श्रीपूज्यपादमकलङ्कमनन्तबोधं शब्दार्थसंशयहरं निखिलेषु बोधम् । सच्छब्दलक्षणमशेषमतः प्रसिद्धं वक्ष्ये परिस्फुटमलं प्रणिपत्य सिद्धम् ॥१॥ सविस्तरं यद्गुरुभिः प्रकाशितं महामतीनामभिधानलक्षणम् ॥ मनोहरैः स्वल्पपदैः प्रकाश्यते महद्भिपदिष्टियाति सर्वापिमार्गे (?) ॥२॥ तदुक्तकृतशिक्षश्लाध्यमेतद्धितस्य किमुक्तमखिलज्ञैः । भाषमाणो गणेन्द्रो विविक्तमखिलार्थ श्लाध्यतेऽतो मुनीन्द्रैः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org