________________
प्रशस्त्यादिसंग्रहः ।
[ २४५
संवत् १९४३ चैत्रवदिद्वितीयायां भृगुवासरे लिपीकृतं बेलीराममिश्र कुज्जरांवाले मध्ये जिनमन्दिरे पार्श्वनाथप्रसादात् पठनार्थं श्रीउद्योतविजयजीमहाराजजी || स्त० आदि : - श्रीमन्मुनिराजसिंह गुरुचरणेभ्यो नमोऽस्तु ॥ प्रणम्य परमानन्दबीजं जिनमथो गुरुम् । अध्यात्मसारस्तबको लिख्यते लोकभाषया ॥ १ ॥
स्त० अन्तः - स्वस्तिश्रीसुखसद्मपद्मसुषमं यत्पादयुग्मं श्रयन् । श्रेयांसि प्रणिधानतोऽत्रभवते भूयांसि भव्यो भवी । त्रैलोक्यप्रथितप्रभावविशदं गायन्ति यं चानिशं ।
सौवर्णप्रभवः स वः श्यतु मलं श्रीपार्श्वचिन्तामणिः ॥ १ ॥ श्रीमद बृहन्नागपुरीयलङ्कागणेश्वरोऽभूद्विशदेन्दुकीर्त्तिः । जाग्रत्प्रतापोऽभिमतार्थदाता श्रीमज्जग [ज् ] जीवनदाससूरिः ॥२॥ दिग्दन्तिसंख्येषु तदीयशिष्टशिष्येषु धीरः खलु पञ्चमोऽपि । गुणैरुदारैः प्रथमोऽभवद् यः पायात् स मां श्रीगुरुलद्धराजः ॥३॥ आसंस्तदीयांहिकजद्विरेफाः शुभाशयाष्ठाकुरसिंहजिल्काः । यत्पादपांशुः श्रितमानवार्तिहारी प्रतीतो भुवि भव्यलोकैः ||४|| तदन्तेवासिनः श्लोकविमलीकृतविष्टपाः । पुण्यकारुण्यपीयूषपूर्णाङ्गाः शुद्धसंयमाः || ५ || प्रेक्षावत्प्रतिपन्नपन्नगपतिग्रन्थार्थसार्थोल्लस
द्विद्वत्तापरिकर्म्मतापितमतीन्नौन्नत्यभृत्सम्मतीन् । सेवन्ते समयकान्नराधिपतयोऽभीष्टाप्तये योगिनो धीराश्चाविरतं जयन्तु गुरवः श्रीराजसिंहाह्वयाः || ६ || स्वरितानामपि येषां सुदृशामपि भूयसी कृपादृष्टिः । जागर्त्ति जगद्धितदा [य] पारवाचो हि सत्तपसः ||७|| महायानां सुकृतालयानां तेषां हितैषी रघुनाथनामा । शिष्योऽस्मि विद्वज्जनसंगमीप्सुः सुधीर्विनेयादिसमन्वितोऽहम् ||८|| काठिन्यतोऽतिग्रह नेत्रचरित्रवर्द्धितो नो मतिः स्पृशति रत्नमिवार्थजातम् ।
तस्यालिखत् ततमर्थमिह प्रसत्य सद्यः परोपकृतिनोऽनलसा हि सत्तमाः || ९ ||
शिष्यैरिति विशेषः ।
इत्यर्थितो भुवनपूर्वकभानुसंज्ञसार्वस्वरूपकलितं ललितं चरित्रम् | लक्ष्मा (म्या)दिलाभगणिपुङ्गवद्द्धमेतत् सार्थं व्यधामनिपुणोऽपि गुरोः प्रसादात् ॥१०॥ -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org