________________
[२४३
प्रशस्त्यादिसंग्रहः । येनासौ नव्यलोकः कलयति विषमं मोहमिथ्यात्वभेदं
___ ज्ञात्वा चारित्रधर्म सकलसुखकरं तत्र बद्धादरः स्यात् ॥४॥ यथा यथा धर्माधिया तरङ्गदृष्टान्तमेनं हृदि भावयन्ति । तथा तथा ज्ञातभवस्वरूपाः संवेगनिर्वैदरसं भजन्ते ॥५॥ मयकाऽपि मन्दबुद्धया यद्यत्र चक्रे समुद्यमः किञ्चि(कश्चि)त् ।
तत्पट्टकजयशेखरदत्तश्रुतलेशमाहात्म्यम् ।।९।। प्रशस्तिः -इत्यादि श्रीभुवनभानुकेवलिदृष्टान्तमांहि बालावबोधः सम्पूर्णः ॥
संवत् १७७४ वर्षे कार्तिक शुदि १० दशमीतिथौ श्रीजिहानाबादनगरमध्ये लिखितम् ।
[4233] अन्तः-विउसिज्ज विसयविसपाणमुक्कडं जो धरेइ णियचित्ते ।
सिरिभुवणभाणुअणुओगमेत्थ सो लहइ णिव्वाणं ति बेमि ॥१३॥
इह सिरिभुवणभाणुकेवलिसरूवगज्झिए अज्झप्पकहासारे दव्वाणुओगपरमागममहासुयखंधणिज्जासभूए अणुओगचूलाखंधो णवमो सम्मत्तो तस्सम्मत्तीए सम्मत्तं सिरिभुवणभाणुचरियं ॥
भास्वन्नागमहत्तमोत्तमफणाराजीलसच्छत्रभृ
द्धामा वामतनुस्पृशां समदृशा धर्मध्वनेरर्पकः । श्रीमद्रुस्तकपत्तनालयकृतप्राज्याधिवासः क्रिया___ च्छ्रीचिन्तामणिपार्श्व एष विमलां कल्याणमालामलम् ॥१॥ . गणे खरतराह्वये गुणगणैकभूरात्मवित्
क्रियाकमलभास्करः स्मरपराक्रमोन्माथकः । कथाकथितविक्रमः क्रमनताशेषभूभर्तृको
बभूव भुवि विश्रुतश्रुतपयोराशिराशार्पकः ॥२॥ जिनप्रभ इति प्रभुः प्रभुरशेषसूर्यावले
लीविबुधपङ्क्तिषु कृतिषु मुख्यरेखोऽनिशम् । निशाधवकराकराभिदुरकीर्तिरर्तिप्रहः
— प्रहाणरहितस्ततस्ततगुणव्रातकैराश्रितः ॥३॥ युग्मम् । तदन्वयेऽप्यस्ति विशालकीर्तिः स्फूर्तिर्यदीया नहि माति लोके । पद्मालया लाभ इति प्रसिद्धः समृद्धवंशोद्भवमूर्तिरुच्चैः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org