SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ २२२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे तच्छिष्यः प्रथमः समर्थमहिमा त्रैव (वि)द्यगोष्ठीगुरुः सूरिश्रीमुनिसुन्दरः सुरगुरुः ख्यातः क्षितौ प्रज्ञया । अस्ति प्रास्ततमोभरस्तदपरः सूरिस्तु भूरिप्रभा शाली श्रीजयचन्द्र इत्यभिधया सर्वत्र लब्धोदयः ।।१२।। यो विश्वाद्भुतलब्धिभिः सुमनसामाश्चर्थकृद्भिः कलौ . सौभाग्याम्बुधिराससाद पदवीं श्रीगौतमस्वामिनः । स श्रीमद्गुरुसोमसुन्दरपदाम्भोजाकराहपभि(ति)____ीयात् श्रीजयचन्द्रसूरिरवनौ सूरीश्वरश्चाग्रणीः ।।१३।। विंशतिस्थानकाचारविचारामृतसंग्रहः । गच्छेशश्रीजयचन्द्रसूरिशिष्येण निर्मितः ॥१४॥ वीरमाख्यपुरे रम्ये युग्मं व्योमेन्दु-पञ्चभिः (१५०२)। प्रमिते वत्सरे हर्षाज्जिनहर्षेण साधुना ॥१५॥ ग्रन्थस्यास्य पवित्रस्य वाचनं श्रवणादिभिः । लभन्ते प्राणिनः प्रौढं श्रीजिनश्वरे(र)सम्पदम् ॥१६॥ ग्रन्थोऽष्टाविंशतिशतानुमितः सर्वसंख्यया । जीयादयं बुधश्रेणिवाच्यमानो निरन्तरम् ।।१७।। [अन्यत्रेमानि पद्यान्यधिकानि-] यस्मिन् दृग्पथमागतेऽपि सहसा नश्यन्ति विश्वार्तयो __ लेभे सर्व जनातिशायिविभवा येनोपमा गौतमी । जीयात् श्रीगुरुसोमसुन्दरपदाम्भोजैकभानूदयः स श्रीमान् जयचन्द्रसूरिभगवान् पूज्यस्त्रिलोकीतले ॥१८॥ भुज-गगन-तिथिमितेब्दे(१५०२)नानाग्रन्थसार्थमादाय । श्रीमज्जिनेन्द्रपदवीपुण्यालोकाय लोकानाम् ॥१९॥ गच्छाधिपश्रीजयचन्द्रसूरिशिष्याग्रणीराहतभक्तिशाली । श्रीविंशतिस्थानतपोविचारग्रन्थं व्यधाच्छ्रीजिनहर्षनामा ॥२०॥ एतदाकर्णनात् प्रायः प्राणिनां दुष्कृतालयाः । क्षीयन्ते तत्क्षणादेव सम्यग्दर्शनशालिनाम् ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy