________________
प्रशस्त्यादिसंग्रहः |
[२१९
संवन्नेन्द्रियर्षीन्दु ( १७५२ ) प्रमिते मधौ मासि नवम्यां कर्मवाट्यां पण्डितने मिसुन्दर गणिनेदमलेखि । श्रीविक्रमपुरमध्ये ||
[3795 ] अन्तः- इति मलधारिश्री देवप्रभसूरिविरचिते महाकाव्ये बलदेवस्वर्गगमनश्रीनेमिनाथ-पाण्डवराजर्षिनिर्वाणवर्णनो नाम अष्टादशः सर्गः समाप्तः
सम्पूर्णं श्री पाण्डवचरित्रम् ।
तैरात्मा सुपवित्रितो निजकुलं तैर्निर्मलं निर्मितं तैः संसारमहान्धकूपपततां हस्तावलम्बी ददे । दत्तं तैरिह सर्वसौख्यजनकं संज्ञानदानं नृणां
ये सर्वज्ञचरित्र पुस्तकमहो व्याख्यानयन्त्यादरात् ॥ १॥ बुद्धे: पाटवमुत्कटं निरुपमं प्रज्ञाकलाकौशलं
वक्तृत्वं चतुरं कवित्वमनधं वार्थावबोधं स्मृतिः । वाक्सौभाग्यमभङ्गुरं त्रिजगतीसाक्षात्करं केवलं
इत्थं पुस्तकदानवाचनविधेः किं किं न लभ्यं फलम् ||२॥ संवत् १८३४ वर्षे माहवदि ३ शनिवासरे श्रीपालीताणानगरे श्री से जाना साहजे ( सांनिध्ये) पण्डितअमी विजयलिखितम् ॥ स्त० प्र० - अथ टबानी प्रशस्ति लिखिई छई
Jain Education International
यद्वदनामृतकुण्डादुदिता मुदितं करोतु जननिवहम् । अमृतच्छदेव वाणी स जयति जिनपुङ्गवो देवः ॥ १ ॥ तत्पदे प्रभुरभूदघजेता श्रीसुधर्मजिनशासननेता । आयुगान्तमपि संततिशाखा भाविनी भगवती भुवि यस्य ॥ २ ॥ तस्य पट्टसरणौ चरणोग्राः सूरयः समभवन् बहवोऽपि । येषु वाच्यमपि वर्षसहस्रैर्नैव सच्चरितमन्यतमस्य || ३ | विजयन्ते श्रीयुक्ताः विजयाद धर्मसूरयस्सुवसुधायाम् । निखिलः गुणाश्रितवपुषो भूरितरसूरिविनुतपादाः || ४ || प्राप्यादेशं तेषां प्रसन्नमनसा सुसेवकेन मया । पाण्डवचरितस्तबुकः रचितोयमुत्तमविजयगणिना ॥५॥ तज्ज्ञैः संशोध्यमिदं कृत्वानुग्रहमुदारमनीषिभिः । यत् किञ्चिद्द (द) नुपयोगात् क्षन्तव्यो लिखितदोषोऽत्र || ६ ||
For Private & Personal Use Only
www.jainelibrary.org