________________
श्रीजेसलमेरुदुर्गस्थ
[क्र. १९९श्रीमालाकलिते सुपुण्यपुरुषे श्रीमालवंशोत्तमद्रंगे कोटिकगोत्रनामविशदप्रासाद आभासते। तत्राभूत् कलशोपमः सुकुशलानन्दप्रदानक्षमः साधुः श्रीविणलाभिधोऽतिविमलः सद्वृत्तशोभावहः ॥२॥
तेजाभिधः प्रादुरभूत् सतेजास्ततोऽब्जिनीनाथ इवोदयाद्रेः ।
मुदं महर्षिष्वपि यो दधानः सच्चक्रकष्टान्यभितो जघान ॥३॥ तज्जन्योऽजनि यो जगन्निजभुजद्वैतार्पणार्थार्पणोद्भूतस्फीतहरावदातसुयशाः शीतांशुकान्त्या तथा । चक्रे निर्मलमुज्ज्वलः समभवन् भावा यथा दुधियां कालुष्यान्मलिनात्मनामपि कृती हाजीति सुश्रावकः ॥४॥
अचीकरत् श्रीजिनचन्द्रसूरिगुरोः पदस्थापनमादरेण । श्रीगौतमस्येव हरिर्महद्धर्था स शोभते श्राद्धवरोऽत्र हाजी ॥५॥ तन्नन्दनः फम्मणनामधेयस्तीर्थेशपूजार्जितभागधेयः ।।
मेरास्थितोऽप्यम्बुधिवद् भुवं यो व्यापत् स्वपूरैः कुतुकं स आसीत् ॥६॥ रूपादे गेहिनी तस्य रूपसौंदर्यशालिनी । अजायत सदाचारा हरेः पञव देहिनी ॥७॥ गुरूपदेशामृतपूर्णकर्णः सर्वज्ञपूजाप्रवणः सकर्णः । तयोस्तनूजोऽजनि डूंगराख्यः स्ववंशशृंगारकरोऽतिदक्षः ॥८॥
तद्रोहिनी चाहिणिदेवी नाम्ना गंगेव गौरा जिनपादलीना ।
पद्माभिराम। वरकंकणाढ्या सुश्राविकाऽभूजगति प्रसिद्धा ॥९॥ तदुदरनदसंभूतं भ्रमरहितं सर्वदा लसत्कोशम् । बलिराजोदयराजांबुजयुग्म जयति सश्रीकम् ॥१०॥ साधुश्रीबलिराजस्य तारादेवीति वल्लभा । समस्ति सुगुणाधारा हारयष्टिरिवामला ॥११॥
धौरेयको धर्मधुरामिवोवी वोढुं विनीतौ तनयौ तदीयौ । विराजतस्तत्र तु देवदत्तो मुख्यो द्वितीयः किल रत्नपालः ॥१२॥ उदारोदयराजस्य जाया शृंगारदेऽभिधा । विमलाऽपीन्दुलेखेव चित्रं वक्रा न या क्वचित् ॥१३॥ पुत्रौ तदीयावपि सच्चरित्रौ शुभावुभौ स्तः सुगुणैः पवित्रौ । पूर्वस्तयोः श्रावकपासवीरो द्वितीयको राजति राजपालः ॥१४॥ इत्यादिपरिवारेण सहितो हितमानसः । बलिराजश्चिरं धर्मकृत्यानि कुरुते भुवि ॥१५॥
इतश्च
अस्ति स्वस्तरुसन्निभः सुमनसामाधारभूतो लसत्पात्रश्रेणिविभूषितोऽतिविततो नीरंध्रसच्छायकः । श्रीमच्चन्द्रकुलालवालकलितः श्रीवीरतीर्थावनीसंप्राप्तोन्नतिरुत्तमः खरतरो गच्छो गणानां गुरुः ॥१६॥ आसंस्तत्र जिनोदया: सुगुरवः संप्राप्तभव्योदयास्तेभ्यः श्रीजिनराजसूरियतयो राजेंद्रचक्रांचिताः । तत्पट्टोदयशैलशंगमभितोऽप्याक्रम्य सूर्या इव भ्राजन्ते जिनभद्रसूरिगुरवस्ते बोधयन्तो जगत् ॥१७॥ प्राग् ज्ञानं तदनन्तरं किल दया वागाईतीति स्फुटा न ज्ञानेन विना क्रियाऽपि सफला प्रायो यतो दृश्यते। तत् स्यात् संप्रति पाठतः स च पुनः स्यात् पुस्तकाधारतस्तस्मात् पुस्तकलेखनेन मुनिषु ज्ञानं प्रदत्तं भवेत् ॥१८॥ ज्ञानं सर्वसुखप्रदं च ददता साधुव्रजायाभयं दत्तं येन ततो भवेदधिगमस्तत्त्वस्य तत्त्वाच्छमः । शान्तो वैरविवर्जितः स निररिनिद्वेषिणो नो भयं तस्माल्लेखयत श्रुतं भुवि जनाः! यूयं विधायाऽऽदरम् ॥१९॥
निपीय तेषामिति वाक्सुधौघं सबान्धवः श्रीबलिराजनामा ।
अलीलिखच्छ्रीश्रुतपुस्तकानि स्फुरद्यशांसीव निजानि मन्ये ॥२०॥ व्यतीते विक्रमादष्टाष्टाब्धीन्दु १४८८ मितवत्सरे । विशेषावश्यकव्याख्यात्यखंडं लेखितं मुदा ॥२१॥छ॥
॥ श्रीः।। शुभं भवतु ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org