________________
ચૂંટ
श्रीजेसलमेरु दुर्गस्थ
समजनि बत तस्य विश्वशस्यास्तनयवरास्त्रितये जगद्वयस्याः । सुवृषपरतयाऽतिवैभवत्वात् सुभगतयाऽङ्गभृतो वृषार्थकामाः ॥ ५ ॥
तदादिरभवद् यशोधवल उज्ज्वलोर्जस्वलो, यशोधवल उच्चकैर्लसति यस्य विश्वावने । यदीयकरकल्पभूरुहविपूर्णकामा नरा विदन्ति मरुमण्डलं निपतितं दिवः खण्डलम् ॥ ६ ॥ द्विःषोढाऽऽवश्यकविधिमथो तीर्थपाच निरर्ची, साधूपास्ति तत इतरदेशागतश्राद्धभुक्तिम् । दानं गुप्तिस्थितनृषु ततो मोक्षणं चैव तेषां यस्यावश्यं रचयत इदं यान्ति घस्राः सहस्राः ॥ ७ ॥ तदनु भुवनपालः प्रीतदिक्चक्रवाल: सुगुरुजिनपतीशस्तूपसाश्चर्यकार्यम् ।
विघटितमपि दिष्ट्या कारयामास योऽयं जिनपतिरथयानं चक्रवर्तीव पद्मः ॥ ८ ॥ तार्त्तीयक उदारतैकवसतिर्गाम्भीर्यपाथः पतिः, स्वच्छात्मा सहदेव आर्हतमतप्रोत्सर्पणोद्यन्मतिः । यस्य स्त्रं शुभपात्रतां प्रथयतेऽनेहस्त्रयेऽपि स्फुटां, पात्रत्राभवदंकुरः शुभतरोः पूर्वार्जितैस्तैः कृतम् ॥ ९॥ श्रेयोमूत्तेः स्फुरति यशसः सुन्दरी धर्मपत्नी, लज्जासज्जा प्रियसहचरी हन्त यस्याः प्रशस्या । अश्रान्तं प्रत्यवयवमलङ्कारिका शीललक्ष्मीराली मुख्या यदि परममूलैौकिकाचारकृत्यैः ॥ १०॥ य इह लवणखेटे मन्दिरं शान्तिनेतुर्व्यरचयदतिरम्यं स्वर्धुनीस्पर्द्धिकेतु ।
इतश्च-
Jain Education International
स्मृतिपथगमिताऽऽनन्दादिपुंस्कस्य तस्योद्धरणसमभिधस्याऽऽनन्दना नन्दना या ॥ ११ ॥ तयोस्तनूजो नेभिकुमारः प्रथमः शिशुरपि तनुजिऩमारः ।
विनयगभीरिमधीरिमसिन्धुः परिमलमथकेम्बुजेव बन्धुः ॥ १२ ॥ द्वैतीयकोऽजनि गणदेवः सुगुरुपदाम्बुजविरचितसेवः । शैशव एव प्रवरविवेकस्ता दृगुभयकुलजोऽपरथा कः ।। १३ ।। वैराग्यकन्दलसमुज्ज्वलचित्तवृत्तिः श्रीमज्जिनेश्वरगुरोः क्रमपङ्कजान्ते । प्रव्रज्य शैशववयस्यधिगूर्जरत्रं तन्नन्दना प्रचुखैभवडम्बरेण ॥ १४ ॥ गृहे सरस्वती नाम्ना व्रते चारित्रसुन्दरी ।
तपस्यति शिवायैषा दुर्लभं हि तदन्यथा ।। १५ ।।
[ क्र. ११४
सप्तक्षेत्र्यां निहितविभवा वैभवेऽप्यस्तमाना, मानत्यक्तस्वपरजनतास्वौचितीवर्यचर्या । उच्चैःशब्दं क्वचिदपि मनाकेनचिन्नादधानाऽप्युच्चैः शब्द प्रतिपदमिता धर्मकर्मैकताना ॥ १६ ॥ कचिदपि समये च सुन्दरीयं द्वयधिकदशामलभावनापरागे । निजहृदयसरोरुहीतिचिन्तामधुकरिकां विनिवेशयाम्बभूव ॥ १७ ॥
मोक्षे सौख्यं निरवधि सकः प्राप्यते कर्मनाशाच्चारित्रेणाऽयमपि सुविदस्तच्च स्वाऽज्ञानहानेः । तद् दुःखदोर्विमलसलिलाभ्यर्णपूर्णालवालं, दोषाणां वा क्षय इव रुजां कारणं ही समेषाम् ॥ १८ ॥ तस्या मूलनिमूलनोज्ज्वलबले श्रीतीर्थराजां वचस्तस्याssवश्यकमादिमं दुरधिगं निर्युक्तिमेतद्विना । साऽप्येवं विवृतिं विनाऽतिधिषणैस्तलेख्यते चेदसौ, पारम्पर्यवशाद्वशंवदमिदं शर्मात्मनः स्यात्तदा ॥ १९ ॥ स्थैर्य मेरुगिरेर्गभीरिमरमां सिन्धोर्विधोः सौम्यतां, तेजस्वित्वमहः पतेः सुकवितां काव्याद् गुरोर्वाग्मिताम् । रूपं पुष्पशरात् स्वरं जलधरादादाय सृष्टिं स्वकामेकत्रोपगताभिवेक्षितुमना यस्मिन् विधाता व्यधात् ॥२०॥ इति झटिति सदक्षरौघमावश्यकविवृतेरपरं विलेख्य खण्डम् ।
सुविहितयतिनायकाय साऽस्मै स्वगुरुजिनेश्वरसूरये व्यतारीत् ॥ २१ ॥
यावत् क्षोणीमृगाक्षी सलिलनिधिमहानीलनीलान्तरीपा कालिन्दीवेणिवल्लिः सुरपथसरिदामुक्तमुक्ताकलापा ।
For Private & Personal Use Only
www.jainelibrary.org