________________
श्रीजेसलमेरुदुर्गस्थ
[क्र. १९२
अन्तसव्वेसि पि जिणाणं जेहि उ दिन्नाउ पढमभिक्खाओ । ते पयणुपेज्जदोसा दिव्ववरपरक्कमा जाया ॥
केयी तेणेव भवे निव्वुया सव्वकम्मउम्मुक्का । केई तइयभवेणं सिज्झिस्संती जिणसगासे ॥छ॥ ५०॥
सरक्ष्य जीवस्य कृतार्तिकस्य नालीकसम्बन्धमनोहरस्य । जैनस्य धर्मस्य निबन्धनं श्रीऊकेशवंशोऽत्र वरीवृतीति ॥१॥ तत्रेन्दिराभद्रवशैकविन्ध्यः श्राद्धावतंसोऽजनि पद्मदेवः । अमस्त धर्म विभवं विवेकं चक्षुःसधर्मोपकृतीरसून् यः ॥२॥ नासत्ययुक्त्या गतरोगशीला सुपर्वऋध्यद्वसुराजकाम्या । वृषाग्रिमश्रीरुचिताऽस्य देवश्रीरित्यभूत् प्रेमगृहं कलत्रम् ॥३॥ तस्याङ्गभूः कौस्तुभवत् पयोधेः क्षेमंधरोऽभूद् विलसन्महस्कः । लोकंपृणैर्यः स्वगुणैश्चकार पदं हृदब्जे पुरुषोत्तमस्य ॥४॥ यो धर्मरत्नमभजज्जिनचन्द्रसूरे र्गत्यनियि विविच्य विशुद्धबुद्धिः । वाक्यामृतैर्जिनपतेः सुगुरोरुदारैः कृत्वा तदेव विमलं हृदये न्यधत्त ॥५॥ चित्र महाधार्मिकमौलिरेष सहोदरं यन्निजनंदनं च । आचार्यलक्ष्मीयुजमप्यहासीत् को वाच्यमिच्छन्जिनचन्द्रमाप्य ॥६॥ पार्श्वप्रभोरजयमेरुपुरे पुरस्ताद् योऽचीकरत् कमपि मण्डपमग्यभङ्गिम् । मध्यंदिने दिनपतिर्यदधः क्षणे यान् चामीकराण्डकरमा परमां बभार ॥७॥ तस्य प्रिया समुदपद्यत हंसिनीति यस्या वपुलवणिमामृतपार्वणेन्दुः । लावण्यमप्यविषयः सुरसूरिवाचो वाचोऽप्यधःकृतसितामृतदुग्धधाराः ॥८॥ तयोस्तनूजा जनताप्तपूजास्त्रयोऽभवन् स्वःसरितो यथौघाः । पूतामलस्वात्मसु येषु नित्यं मुदा रमंते सुमनोमनांसि ॥९॥ समस्ति तेषां धुरि भीमदेवः श्रिया परीतो गुणबद्धयेव । प्रज्ञालतां तां हृदयालुतां च चित्रीयते यस्य निशम्य धीमान् ॥१०॥ यः कर्मसद्ग्रन्थविचारचारुचातुर्यधुर्यः धितसाधुचर्यः । कृत्यद्धिरावश्यकतीर्थपा मुख्यैर्जनुः स्वं सफलीकरोति ॥११॥ पङ्कानुषङ्गभिदुरोऽप्यजडाश्रयोऽपि पद्मः प्रबुद्ध इह शश्वदपि द्वितीयः । पश्चाद्भवः पुरिसडो वृषनैष्ठिकत्वं यस्याब्रवीत् परिकरः सुकृतं चरिष्णुः ॥१२॥ अत्रत्याक्षियुगेन मंक्षु मिलिते अन्यप्रियालोकनौत्सुक्यं दोषममुष्य मा मम दशौ मुग्धे ग्रहीष्टामिति। नीरङ्गीपिहितास्यया न ददृशे पुसः परस्याननं, वैदेह्येव यया प्रियाऽस्य जयदेव्याख्यऽस्ति पद्मस्य सा ॥१३॥ य इह लवणखेटे मन्दिरं शान्तिनेतुर्व्यरचयदतिरम्यं स्वर्धनीस्पर्द्धिकेतु । स्मृतिपथगमितानंदादिपुंस्कस्य तस्योद्धरणसमभिधस्य श्रावकस्याङ्गजा या ॥ १४ ॥ प्रज्ञावान् विनयी जितेन्द्रियचयः सम्यक्त्वरत्नालयः श्रीतीर्थकरबन्धुरार्चनगुरूपास्त्येकतानाशयः । सत्पात्रेष्वनिदानदानविदुरः श्रेयःश्रिया मेदुरः सूनुः सूनवदुज्ज्वलोल्वणगुणान् धत्ते तयोः साढलः ॥१५॥ कचिदपि समयेऽथ साढलोऽयं द्वयधिकदशामलभावनापरागे । निजहृदयसरोरुहीतिचिन्तामधुकरिकां विनिवेशयांबभूव ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org