________________
क्र. ९०
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
दशवैकालिकटीका विधाय यत् पुण्यमर्जितं तेन । हरिभद्राचार्यकृतान्मोहाद् भक्त्याऽथवा मया ॥३॥ श्रीमद्बोधकशिष्येण श्रीमत्समतिसूरिणा। विद्वदभिस्तत्र न द्वेषो मयि कार्यो मनागपि ॥४॥ यस्माद् व्याख्याक्रमः प्रोक्तः सूरिणा भद्रबाहुना । आवश्यकस्य नियुक्तौ व्याख्याक्रमविपश्चिता ॥५॥ सूत्रार्थः प्रथमो ज्ञेयो नियुक्त्या मिश्रितस्तथा। सर्वैर्व्याख्याक्रमर्युक्तो भणितव्यस्तृतीयकः ॥६॥ प्रमादकार्यविक्षिप्तचेतसा तदयं मया । क्रियाया अवबोधार्थ साधूनां तु पृथक्कृतः ॥७॥ लब्ध्वा मानुष्यकं जन्म ज्ञात्वा सर्वविदां मतम् । प्रमादमोहसम्मूढा वैफल्य ये नयन्ति हि ॥८॥ जन्ममृत्युजराव्याधिरोगशोकायुपद्रुते । संसारसागरे रौद्रे ते भ्रमन्ति विडम्बिताः ॥९॥ ये पुनर्ज्ञानसम्यक्त्वचारित्रविहितादराः। भवाम्बुधिं समुलंघ्य ते यान्ति पदमव्ययम् ॥१०॥
॥ ग्रंथ २५०० ॥ कातंत्रभूषणन्यासकर्तृश्रीचंद्रसूरये। आशादित्यमहामात्यः [........... .........] एना [विशतिसंयुक्ते शतद्वादशहायने । एकादश्यां नभस्यस्य कृष्णायां भोमवासरे ॥छ।।
संवत् १४८८ वर्षे मार्गशीर्ष सुदि २ गुरौ श्रीस्तंभतीर्थे अविचलत्रिकालज्ञाज्ञापालनपटुतरे श्रीमत्खरतरगच्छे श्रीजिनराजसूरिपट्टे लब्धिलीलानिलयबहुबुद्धिबोधितभूवलयकृतपापपूरप्रलयचारुचारित्रचंदनतरुमलययुगपवरोपममिथ्यात्वतिमिरनिकरदिनकरकरप्रसरसमश्रीमद्गच्छेशभट्टारकश्रीजिनभद्रसूरीश्वराणामुपदेशेन रेषाप्राप्तसुश्रावकेन सा. उदयराज सा. बलिराजेन दशवैकालिकसूत्र-नियुक्ति-बृहद्वृत्ति-लघुवृत्तिपुस्तकं लिखापितम् ॥छ।।छ।। श्रीमंगलं ।।
क्रमाङ्क ८९ (१) दशवैकालिकचूर्णी पत्र. १-३५५ । भा.प्रा. । ग्रं. ८४०० । ले. सं. १४८९ । संह. श्रेष्ट । द. श्रेष्ठ । लं. प. २२।४२. अन्त
॥संवत् १४८९ वर्षे मार्ग शुदि ५ गुरुदिने श्रीमति श्रीस्तंभतीर्थे अविचलत्रिकालज्ञाज्ञापालनपटुतरे विजयिनि श्रीमत्खरतरगच्छे श्रीजिनराजसूरिपट्टे लब्धिलीलानिलयबंधुरबहुबुद्धिबोधितभूवलयकृतपापपूरप्रलयचारुचारित्रचंदनतरुमलययुगपवरोपममिथ्यात्वतिमिरनिकरदिनकरप्रसरसमश्रीमद्गच्छेशभट्टारकश्रीजिनभद्रसूरीश्वराणामुपदेशेन परीक्षगूजरसुतेन रेषाप्राप्तसुश्रावकेन परीक्षधरणाकेन पुत्रसाईयासहितेन श्रीसिद्धांतेन भांडकार लिखापितं आसा लिखितं॥
(२) दशवकालिकनियुक्ति पत्र. ३५६-३८० । भा. प्रा.। क. भद्रबाहुस्वामी। गा. ४५० । ले. सं. १४९१ । लं. प. २२।४२. अन्ततत्समर्थने च दशवैकालिकनियुक्तिः समाप्ता ॥छ। कृतिः श्रीभद्रबाहुस्वामिनः ॥छ॥
आवश्यकादिनियुक्तिविधानाल्लब्धकीर्तये । भद्रबाहुमुनोंद्राय श्रुतकेवलिने नमः ॥ ॥संवत् १४९१ वर्षे श्रावण सुदि ९ बुधे विशाखानक्षत्रे शुभयोगे लिखितं ॥छ। शुभं भवतु लेखकपाठकयोः ॥छ॥श्रीः॥छ॥
क्रमाङ्क ९० (१) पिंडनियुक्ति (महल्लिया पिंडनियुक्ति) पत्र १-३० । भा. प्रा.। क. भद्रबाहुस्वामी । गा. ६९७ ।
(२) पिंडनियुक्ति लघुवृत्ति पत्र ३१-१०२ । भा. प्रा.। -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org