SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीजेसलमेरुदुर्गस्थ [३२श्रीश्रीमालकुले सुधांशुधवले पुरत्नचक्राकुले, धैर्यौदार्यविनिर्जितामरगिरिस्वःपादपालीचले। श्रीमद्भूपतिमन्त्रिमुख्यविविधव्यापारचिन्ताकुले, ब्राह्मीसिन्धुसुताविलाससदने प्रक्षालितान्तर्मले ॥१॥ रेजतुः परहितौ सहोदरौ सूरिवयजिनभक्त बाहडौ। प्राप्तसाधु-गृहधर्मसेवधी योगिनाथजिनदत्तसूरितः ॥२॥युग्मम् ॥ जज्ञे बाहडदेहजो जिनरतः साधारणः श्रीपतिर्यद्दानात् समजायतात्र भवने दानेश्वरोऽर्थिवजः । तत्पुत्रोऽजनि उजलो गतमलः सत्साधुसेवाकुलो, यत्का कायलता सदा समुदिता रेजे परार्थोद्यता ॥३॥ कृत्वोत्सर्जनदीपिकां निजकरे सद्वाक्यवर्त्यन्वितां, भावस्नेहसमुज्ज्वलां विधिपथं या दर्शयत्यङ्गिनाम् । सा श्रीशीलसमुज्ज्वलाम्बरधरा स्वाध्यायनित्याशना, तस्याजायत धर्मकर्मनिरता जीवंदही श्राविका ॥४॥ आद्यस्तस्यास्तनूजः परहितनिरतो राजसिंहो विवेकी, सप्तक्षेत्र्यां स्वकीयं वपति निजभुजोपार्जितं योऽर्थजातम् । तस्यैवाभाति वीरप्रवचनविविधोत्सर्पणाबद्धकक्षो, धर्मज्ञो मोषदेवो विधिपथजलधिं सेवते विष्णुवद् यः ॥५॥ रयवति गुरुसंघे संघपाश्चात्यभारो निजविभवचयेनाङ्गीकृतो दुर्द्धरोऽपि । विमलविमलशैले कारिता च प्रतिष्ठा जिनकुशलगुरूणां पाणिपझेन याभ्याम् ॥६॥ आद्यस्याऽऽद्या वितरणरता प्रेमिका भाति कान्ता धर्मिण्याख्या नतगुरुजिना सत्यसंज्ञा द्वितीया । जाताः पुत्रास्तदुदरभवाः पाण्डवाभाः प्रवीणाः पुत्र्यश्चान्याः कुमतविरताः श्राविकाधर्मभाजः ॥७॥ तत्राद्यः पूर्णसिंहाख्यो द्वितीयो धणसिंहकः । अन्ये च हेमसिंहाद्याः सुता भान्ति महीतले ॥८॥ इतश्च जज्ञे चान्द्रकुले जिनेन्दुसुगुरू रूपास्तमीनध्वजस्तच्छिष्यः परवादिजिज्जिनपतिस्तत्पट्टलक्ष्मीपतिः । श्रीमत्सुरिजिनेश्वरो युगवरो भाग्यावलीमेदुरस्तत्पट्टे च जिनप्रबोधयतिपो विद्याम्बुपाथोनिधिः ॥९॥ येषां ध्यानतपोबलेन सततं जाताः सुराः किङ्करा, व्याख्यानामृतमग्नजन्तुनिकरा वाञ्छन्ति नो शर्कराः। कीर्तिव्याप्तदिगम्बराः स्मरहराः सौभाग्यलक्ष्मीभरा, रेजुस्ते जिनचन्द्रसूरिगुरवस्तत्पट्टलक्ष्मीवराः ॥१०॥ जजुः पट्टे तदीये विबुधपतिनताः प्रीणितप्राणिजाता, ज्ञानध्यानकवित्ता जिनकुशलबुधाधीश्वराः शान्तचित्ताः। चक्रुर्येषां मिषेण ध्रुवमवनितले संघभाग्यादिदानी, श्रीजम्बूस्वामिमुख्या युगवरनिचयाः स्वोदयं सर्वलब्ध्या ॥११॥ सर्वज्ञे शिवपत्तनं गतवति श्रीद्वादशाङ्गीलवा, गीतार्थः करुणास्पदैः परकृते न्यस्ताः पुरा पुस्तके। तेषां लेखनमुच्चकैः प्रतिदिनं यः कारयत्यादरात् तस्यागण्यमुदेति पुण्यमधिकं प्राणान्नदानोद्भवात् ॥१२॥ श्रुत्वा व्याख्यां तदीयां गुरुवचनरतो राजसिंहोऽत्र साधु जम्बूप्रज्ञप्तिसंज्ञस्य बहुसुखकृते तातमात्रोरिदानीम् । पुस्तं श्रीसत्रशाला शिवसुखजनिका व्यञ्जनाढया विशाला, सौन्दर्याङ्गोत्थयुक्तो व्यरचयत मुदा लेखयन्नन्यपुस्तान् ॥१३॥ मृगाकं लालयन्नेष मृगाको गगनाङ्गणे । यावदाहादते विश्वं तावन्नन्दतु पुस्तकम् ॥१४॥ पुस्तकप्रशस्तिः समाप्तेति ॥छ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥१॥ __ क्रमाङ्क ३२ (१) जंबूद्वीपप्रज्ञप्तिउपांगसूत्र पत्र ९७ । भा. प्रा.। ग्रं. ४१४६ । ले. सं. १३७८ । ॥जबुद्दीवपन्नत्ति सम्मत्ता ॥छ॥ ग्रन्थसंख्या ४१४६॥ संवत् १३७८ पोष बदि ५ दिने समर्थिता ॥छ॥ शुभं भवतु संघस्य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy