________________
१०
श्रीजेसलमेरुदुर्गस्थ
अन्त
इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां षट्त्रिंशत्तमपदं समर्थितम् ॥ छ ॥ समर्थिता प्रज्ञापना टीका ॥ छ ॥ शुभं भवतु ॥ छ ॥
॥ यस्मिन् जाग्रत्सुपुरुषसुमस्तोमसौरभ्यभङ्गी भोगाकृष्टैर्बुधमधुकरैस्तन्यते कीर्त्तिगीतिः । पृथ्वीकान्ताकमनकरणत्राणशृङ्गारकोऽसौ पुष्पापीडो जगति जयति श्रीमदूकेशवंशः ॥१॥ तस्मिन् सिद्धिवधूवशीकृतिविधौ गाढानुबन्धान्न्यधाद् यः स्वस्वान्तवसुन्धरान्तरतुलं सम्यक्त्वसत्कार्मणम् । सर्वाङ्गीणविभूषणं त्वचकलच्छीलं शरीरेऽसकौ पुन्नागोऽभवदासनाग उदयी नाहट्टवंशोद्भवः ॥२॥ कुमरपाल इति प्रथमोऽङ्गभूरभवदस्य विभास्वरभाग्यभूः ।
तदनुजोऽजनि दुर्लभनामकः कलकलाकलनाकुशलात्मकः ॥३॥ देवार्चागुरुपर्युपास्तिगुणवद्दानादिषट्कर्म्मणां कर्त्ता विप्र इवान्वहं कुमरपालः श्राद्धरत्नं जयी । श्रीशत्रु जयदेव देवकुलिकां श्रीमानतुङ्गाभिघप्रासादाभरणं विधाय नृजने योऽलात् फलं निस्तुलम् ॥४॥ समजनि जनी मान्या धन्याभिधाssस्यसुधारसप्रसर मधुरव्याहारोद्घा सुशीलरमानघा । यतिजनसदा सेवा हेवा कताकलिता हि याऽजनयत निजं नामान्वर्थे विवेकवती सती ॥५॥
स्वःशाखेव सुखावहान् कलफलान् प्रासूत सा सत्सुतान् ख्यातानीश्वर -लौहटौ कुमरसिंहं चेति सत्पुत्रिके । गोग नाम सरस्वतीं च विदितैरेतैरपत्योत्तमैर्या कांचित् कलयांचकार परमां रामासु शोभां भुवि ॥६॥ उदयश्रीति नाम्नाऽभूदीश्वरस्य सधर्मिणी । समुद्रतनया ख्याता लक्ष्मी लक्ष्मीपतेरिव ॥७॥
तयोः सुतोऽभूत् थिरदेवनामा बभौ द्वितीयो जिनदेवसंज्ञः । ततस्तृतीयोऽजनि वीरदेवस्त्रयोऽपि मूर्त्ता इव पूरुषार्थाः ॥ ८ ॥
इतश्च
पृथ्वीराजन्रराजराजसमितौ प्रौढप्रमाणायुधैः, श्रीपद्मप्रभसूरिवीरमुदयद्दर्प विजित्वा (त्य ? ) क्षणात् । वीरा लेषसुखोन्मुखी जयरमा येनोपयेमेतमां, सैषोऽशेषजिगीषुराड् जिनपतिजज्ञे यतीन्द्रः पुरा ॥९॥ तदीयपदसम्पदां स समपादि पात्रं परं जिनेश्वरयतीश्वरः सुकृतवारिवार्डियकः । निशाकरकरोत्करप्रवरसौवकीर्त्तिच्छटासिताभ्रदलभङ्गिभिर्व्याधित पत्रभङ्गीदिशाम् ॥१०॥
रेजे श्रीजिनचन्द्रसूरि सुगुरुस्तद्गच्छलक्ष्मीपतिर्मुक्ताहार तुषारतार सुयशः प्राग्भारविश्वंभरिः ।
यात्रां यत्र वितन्वति क्षितितले मिथ्यात्वदस्युच्छिदे, तद्गृह्या इव ते दिगंतगतयः पाषण्डिनो जज्ञिरे ॥११॥ शुद्धे यद्वसौधे कलिमलविलय क्लृप्त सर्वर्तुकान्ते कान्ते श्रीवाणिदेव्याः सुखमसुखमुषि प्रत्यहं संवसन्त्याः । लीलादोलानुकारं कलयति युगलीकल्पयोः कर्ष्णपाल्योस्तत्पट्टस्वर्णशैले जिनकुशल गुरुः स्वस्तरुः सोऽस्त्युदीतः ॥ १२ ॥ प्राहुर्ज्ञानचरित्रदर्शनमयं श्रीमुक्तिमार्ग जिना, विज्ञानेन विना क्षमे न भवितुं चारित्र सद्दर्शने । प्यानज्ञाननिबन्धनं च समयज्ञानैकतानात्मनां साधूनां बहुशास्त्रपुस्तकततेर्विश्राणनं गीयते ॥ १३॥ तन्मोक्षलक्ष्मिपरिरम्भमहोत्सवोत्कैः, श्राद्धर्विशुद्धहृदयैर्विकसद्विवेकैः ।
[ २९
जैनागमावगमसङ्गत संयतेभ्यः सिद्धान्तपुस्तकततिः सततं प्रदेया ॥ १४॥
इति हितमुपदेशं सन्मरंदावभासं जिनकुशलयतीन्दोर्वक्त्रपद्मान्निरीतम् ।
Jain Education International
मधुकर इव वर्यानन्दसन्दोहसिन्धुः स्म पिबति बत वेगादीश्वरः श्राद्धरत्नम् ॥१५॥
श्रीमत्प्रज्ञप्त्युपाङ्गागमविवृतिमिमां पुस्तयुग्मे सुवर्णैर्ज्यायोन्यायात्तवित्तैर्निजसुकृतकृते लेखयित्वा प्रधानाम् । प्यानज्ञानप्रभाभे विधिपथपथिकः पुण्यभूरीश्वराख्यः, श्राद्धोत्तंसः प्रभुश्रीजिनकुशलगुरुभ्यो ददौ ब्रह्मांडालयमंडपप्रतिकृतिव्यमाङ्गणे तीर्थकृत्कीर्त्तिः कीर्त्त्यनटीस्फुटीकृतगतिर्नृत्यं परं पुष्णती ।
॥१६=
For Private & Personal Use Only
www.jainelibrary.org