________________
३६४
जैनताडपत्रीय ग्रंथभंडार सूचीपत्र
॥अहम् ॥
जेसलमेरुदुर्गस्थ थाहरूशाह शानभंडार १. अंगविज्जा पत्र ३३२ । अन्त
ग्रं. ९००० ॥छ॥ सं. १६६९ वर्षे जेठ वदि २ दिवसे सोमवारे बहुमंगलसूरिबुधगुरुजनवर्गे प्रवरतरन्यायोदयविधिधरणीपालनानुकृतश्रीरामे प्रस्फुरत्प्रचुरतरजगत्त्रयाकृताश्रयनिष्पापप्रतापसुरूपसहस्रधामाभिरामे । निजरूपशोभावैभवतिरस्कृतकामे। श्रीमद्यादवकुलामलकमलिनीदलमरालाबालश्रीभीमनिस्सीमभूमिरामेशे विजयिनि ।। इतश्च
श्रीखरतरविधिपक्षे श्रीमज्जिनभद्रसूरिपरंपराशुक्तिकासंपुटमौक्तिकानुकारिश्रीजिनमाणिक्यसूरिपट्टधारकेषु स्ववचनरचनारंजिताऽकबरसाहिप्रदत्तयुगप्रधानपदस्फारकेषु। जलधिसकलजलचरजंतुरक्षाकारेषु। श्रीशत्रुजयप्रमुखतीर्थकरमोचकेषु सकलगोरक्षादायकेषु कलिकालकलंकावलोकनकलुषीभूतमनस्समस्तावनुस्सागरांबरधरणीनिवेशितात्मप्रतापकोट्टपालसाहिसलेमबलिराजेन संतापितं श्रीवीरशासनं निराधारं प्रणष्टसकलसूरिपालनमालोक्य विशिष्टवचोमृतैस्तमाश्वास्याखंडजैनशासनरक्षाविधायकेषु युगप्र. श्रीजिनचंद्रसूरिषु खरतरगणसंतति राजन्वतीं कुर्वत्सु तत्पट्टोदयशैलसहस्रधामानुकारिषु श्रीसाहिकृतसूरिपदमहोत्सवविधिषु चतुर्दशविद्यावधूवरभोगविधानभर्तषु श्रीजिनसिंहसूरिषु यौवराज्यपदं पालयत्सु श्रीमज्जेसलमेरुवास्तव्यकृतानेकधर्मकर्तव्यभणसालीगोत्रपवित्रताकारक सा० पूनसी तत्पुत्र सा. श्रीमल्ल तद्भार्या चांपलदे तत्पुत्ररत्नेन धर्मस्थानविषयप्रदत्तबहुद्रविणकृतसकलनगरलोकभोजनपूर्वकनालिकेरयुतरजतवितरणजीवजंतुरक्षागुणस्मारितकुमारपालगुण सा० थिरराजेन सा. हरिराजपुत्रयुतेन स्वकृतनूतनश्रीज्ञानकोशे अंगविद्यापुस्तकं लेखितम् ॥ श्रीजिनकुशलसूरिशाखायां वा. श्रीस्वर्णप्रभगणि तच्छिष्य श्री.मलोदयगणित शिष्य पं. देवसार पं. गुणराजजी थिरराजेन पुस्तकं लिपीकृता। शिष्य करमचंद उदयसंघ सपरिवारान् शुभं भवतु । कल्याणमस्तु । अंगविद्यापुस्तकं लिपीकृतम् ।
श्रीसाधुकीयुपाध्यायानां शिष्येण पं. महिमसुदरगणिना यथा प्रतिकृतेय प्रतिः पं. शानमेरु पं. नयमेरुयतेन ।
९ वर्षे ज्येष्ठ वदि १३ दिने । सा. थिरुकेन स्वभांडागारे पुण्याथे टेखितेयं प्रतिः कल्याणमस्तु ॥छ।। २. जिनदत्तसूरिचित्रपट्टिका शताब्दी १३ मी। गुणसमुद्राचार्य । पंडित ब्रह्मचन्द्र । सहणपाल। अनंग । नरपतिश्रीकमरपालभक्तिरस्तु । श्रीजुगप्रधानागमश्रीमज्जिनदत्तसूरयः। ३. थाहरूशाहना भंडारनी कल्पसूत्रनी सचित्र सुवर्णाक्षरी प्रति
ग्रं. १२१६ संवत् १५१९ वर्षे आखाढ सुदि ३ रवौ लिखितम् मंत्रि वाछाकेन ॥छ।। शुभं भवतु ॥ छ॥श्री॥ संवत् १६४४ वर्षे कार्तिक शुदि ११ दिने वरदगोत्रे साह खरहतसुत साह वरसिंघ तत्पुत्र सा० कर्मचंद प्रभृत्यपत्यानां श्रीकल्पसूत्रपुस्तिका वाच्यमाना चिरं नन्द्यात् ॥छ।।
थाहरूशाहना भंडारना चामडाना दाबडा उपर लेख
स्वस्ति श्रीजयमंगलाभ्युदयाय संवत् १६७३ वर्ष श्रीमज्जेसलमेरुमहादुर्गे श्रीबृहत्खरतरगच्छाधीश्वर युगप्रधान श्रीजिनचन्द्रसूरिपट्टालंकार युगप्र० श्रीजिनसिंहसूरीश्वरे विजयिनि श्रीकल्याणदासमहाराजे राज्यं कुर्वति भंडसालिक गोत्रीय सा० श्रोमल्ल तत्पुत्र भ० थाहरूश्रावकेन । चि. हरराज । चि मेघराज प्रमुखसपरिकरेण श्रीज्ञानकोशे पुस्तकरक्षार्थ दाबडा कारिता ॥श्री। हर्षनंदनमुनीनामुपदेशेन आचन्द्राकै विजयतात् ।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org