________________
श्रीजेसलमेरुदुर्गस्थ
[पोथी १५-१६ श्रीमलसाह पुत्र थिरराजेन पुत्र हरिराजयुतेन स्वकृतनूतन भण्डागारे श्रीनिशीथचूणि द्वितीयखण्डो सम्मत्तो। श्रीजिनकुशलसुरसाखे वा. श्रीस्वर्णप्रभगणि पं. कमलोदय पं. देवसार पं. गुणराज पं. थिरराज पं. कर्मचंद पं. उदयसंघ लिपीकृतं। शुभं भवतु । कल्लाणमस्तु ।
सं. १६७१ वर्षे श्रीजेसलमेरुदुर्गे श्रीजयसोममहोपाध्यायशिष्यश्रीगुणविनयोपाध्यायैश्शोधितं स्वशिष्य पं. मतिकीर्तिकृतसहायकैनिशीथचूर्णेर्द्वितीयं खण्डं संविदासम्पदे श्रीरस्तुपदे पदे कल्याणमस्तु श्रीखरतरसंघस्य । चिरं जीव्यात् ज्ञानभाण्डागारविधायकसाहथिरराजश्चिरंजीवि साह हरिराज धेनडविराजितः श्रीविलास सबहुमानः श्रीयुगप्रधानश्रीजिनसिंहसूरिराज्ये प्रवर्त्तमाने सर्वदोदयं लभतामर्कवत् ।
स्वस्ति श्रीशुभकार्यसिद्धिकरणश्रीपार्श्वनाथाहति, चैत्ये सद्विधिना विवेकिनिकरैः संपूज्यमाने सदा । राज्ये राउलभीमनामनृपतेः कल्याणदासस्य च, वर्षे विक्रमतस्तु षोडशशते एकोनसप्तत्यति ॥१॥ वृद्धे खरतरगच्छे श्रीमज्जिनभद्रसूरिसन्ताने । जिनमाणिक्ययतीश्वरपट्टालङ्कारदिनकारे ॥२॥ जाप्रद्भाग्यजये प्रबुद्धयवनाधीशप्रदत्ताभये साक्षात् पञ्चनदीशसाधनविधौ सम्प्राप्तलोकस्मये । यावज्जैनसुतीर्थदण्डकरयोः सम्मोचनाख्यालये, गोरक्षाजलजीवरक्षणधनप्राप्तप्रतिष्ठाश्रये ॥३॥ साधुव्यंसकदोषदुष्टितमनःश्रीनुरदीरंजनात् , देशाकर्षणसाधुदुःखदलनात् कारुण्यपुण्याश्रये । श्रीमच्छीजिनचन्द्रसूरिसुगुरौ योगप्रधाने चिरं, राज्यं कुर्वति जैनसिंहसुगुरौ सद्यौवराज्ये किल ॥४॥ कोट्टे जेसलमेरे उपकेशज्ञातिमण्डनं जातः । भणसालिकगोत्रीयः आसासाहः सदोत्साहः ॥५॥ तत्पुत्रो वस्ताख्यः तत्तनयः पुंजराज इति नाम । तत्पुत्रो जसधवल: तत्सूनुः पूनसीसाहः ॥६॥ तत्कुलदीपप्रतिमः श्रीमल्लः तस्य पुत्रवररत्नम् । चाम्पलदेऽम्बाकुक्षिस्वर्णाचलकल्पवृक्षाऽस्ति ॥७॥ भुवि जन्तुजातरक्षास्मारितसुकुमारपालभूपालः । जिनवरगुरुपरमाज्ञातिलकितभालो विशालगुणः ॥८॥ धर्मस्थानव्ययितद्रविणप्रवरः प्रधानशीलेन । जीर्णोद्धारधुरीणो दीनानाथादिदुःखहरः ॥९॥ स्वालयदेवगृहे शंभवाधिपस्थापनामहे सम्यक् । प्रत्येकं श्राद्धानां प्रददे यो राजती मुद्राम् ॥१०॥ मिष्टानभोजनेऽनाथान् संतोष्य वर्षनिष्टासु(2)। अष्टाहिकासु घुसृणैः वर्गोंधैः पूजयाञ्चके ॥११॥ सार्द्धसहस्रचतुष्टयप्रमिताः प्रतिमाश्च सप्तचैत्येषु । द्रव्यस्तवाधिकारी भावस्तवसङ्गतः सततम् ॥१२॥ नगरजनराजमान्यो विधिपक्षाराधको विधिज्ञश्च । दुष्कालकंबहस्तो न दुर्वचनो गर्वमदरहितः ॥१३॥ श्रीथाहरूसुनामा अङ्गजहरिराजमेघराजाभ्याम् । युक्तः कनकां भर्ता आढयः सुश्रावको द्रव्यैः ॥१४॥ ज्ञानप्राप्तिनिमित्तं भवे भवे बोधिबीजशुद्धयर्थम् । सज्ज्ञानकोशमेनं शुद्ध संलेखयाश्चक्रे ॥१५॥अष्टभिः कुलकम्॥ चित्कोशलेखनेन हि पुण्यं यदवापि थाहरूकेण । हर्षात्तेन प्राज्ञाः जिनागमं वाचयन्तु सदा ॥१६॥ शुभं संवत् १९८३ मिति कार्तिक वदी ९ वार शुकरवार । श्रीमान् सूरिवरो महामुनिकृपाचन्द्रः कलौ धर्मराठ, प्राप्तो जेसलमेरनाम्नि नगरे क्षमा पावयन् स्थापिता। संसत्तेन वरा परोपकृतये जीर्णागमोद्धारिणी, वर्षेऽथाग्निवसुग्रहेन्दुगणिते प्रन्थस्तदा लेखितः ॥१॥
लेखक महात्मा दुलीचन्द निवासी बिकानेर।
क्र. १०९ महानिशीथसूत्र पत्र ८० । भा. प्रा. । पं. ४५४४ । ले. सं. १९८३ । स्थि. श्रेष्ठ । पं. १६ । लं. प. १२३४५।
क्र. ११० अंगविद्याप्रकीर्णक पत्र १८७ । भा. प्रा. । ग्रं. ९०००। ले. सं. १९८४ । स्थि. श्रेष्ठ । पं. १४ । लं. प. १२।४५।
क्र. १११ जीतकल्पसूत्र वृत्तिसह पत्र ३६ । भा. प्रा. सं.। मू. क. जिनभद्रगणि क्षमाश्रमण । व.क. तिलकाचार्य । ले. सं. १९८३ । स्थि. श्रेष्ठ । पं. १५। लं. प. १२३४५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org