________________
क्र. ३४७ ] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
१४२ आदि-७०॥ॐ नमो वीतरागाय ॥ साम्प्रतं शिवभद्राख्यकाव्यस्य वृत्तिः क्रियते ।
तत्र चादौ शिवभद्रनामा कविरिष्टदेवताय नमस्कारं मङ्गलार्थमाह ॥छ।। प्रणमत सदसिगदंतं चैद्ममहन्योऽप्रियाणि सदसिगदतं । चूर्णितचक्रतुरंग रुक्मिणममुञ्चच्च यस्य चक्रतुरंग ॥१॥ अन्त
वीक्ष्य शरन्मुखमुडपतिविशेषकोपे तं प्रणयेन वर्तमान विशेषकोपेतम् ।
कृत उपकारः सख्यं न वञ्चनामेति अस्मद्विधमनुगमयन् नवं च नामेति ॥४६॥ स लक्ष्मणो न वञ्चनां स्खलनामेति गच्छति। किं कारयन् अनुगमयन् योजयन् । कथमस्मद्विधं मांसदृशं । कमनुगमयन् तं रामं। कथं कृत उपकारः सख्यं न वञ्चनामेति कृतो विहितोऽस्माभिर्भवतामुपकारस्तारामसर्पणलक्षणः तथा सख्यं मित्रत्वं च नवं नूतनं कृतं भवद्भिः सहास्माभिः कथं नाम व्यक्तमित्यनेन प्रकारेण । कीदृशं तं वर्तमानं तिष्ठन्तं। क विशेषकोपे। किं कृत्वा वीक्ष्यावलोक्य । किं तत् शरन्मुखं शरत्कालप्रारम्भ। कीदृशमुडुपतिविशेषकोपेतं चन्द्रतिलकयुकं । केन वीक्ष्य प्रणयेन प्रीत्या ॥छ॥
श्रीपूर्णतालगच्छसम्बधिश्वेताम्बरश्रीशान्तिसूरिविरचितायां शिवभद्रकाव्यवृत्तौ द्वितीय आश्वासकः समाप्तः ॥छ।।
(४) मेघाभ्युदयकाव्य सटीक. पत्र ८८-११४२७ । भा. सं.। टी. क. शांतिसूरि पूर्णतल्लगच्छीय । आदि
शिवभद्रवृत्तिरुक्ता। साम्प्रतं मेघाभ्युदयस्य वृत्तिः क्रियते। तत्र चाय सम्बन्धः । काचिद्वनिता मेघागमसमये प्रियतमं प्रवसन्तं वदति समाप्तिं यावदाह । तत्र चाद्यः श्लोकः ॥छ। अन्त
श्रीपूर्णतल्लगच्छसम्बन्धिश्रीवर्द्धमानाचार्यस्वपदस्थापितश्रीशान्तिसूरिविरचिता मेघाभ्युदयकाव्यवृत्तिः समाप्ताः ।।
(५) चंद्रदूतकाव्य सटीक पत्र ११५-१३२=१८। भा. सं.। मू. क. जंबूनाग। टी. क. शांतित्रि पूर्णतल्लगच्छीय । आदि-७०॥ ॐ नमः सर्वज्ञाय ॥
जम्बूनागकविश्चन्द्रदूतकाव्यकरणे प्रवर्त्तमान आदौ मङ्गलार्थ इष्टदेवतायै नमस्कारमाह ॥छ।। अन्त
चन्द्रदूतस्य काव्यस्य वृत्तिं कृत्वा सुनिर्मलाम् । यदर्जितं मया पुण्यं तेन निर्वान्तु देहिनः ॥१॥छ।
(६) राक्षसकाव्य सटीक पत्र १३३-१४६=१४ । भा. सं.। क. जिनचन्द्र । आदि-नमः सरस्वत्यै ॥
कश्चिद्वनं बहुवनं विचरन् वयस्थोऽवश्यां वनात्मवदनां वनितां वनाम् ।
तर्वर्यरिप्रदमुदीक्ष्य समुत्थितं खे नागामिमां मदकलः सकलां बभाषे ॥१॥ कश्चिदित्यनिर्दिष्टनामधेयः । ना इति पुरुषः । वनं काननम् । बहूनि वनानि जलानि यत्र तद् बहुवनम् । अन्त
काव्यराक्षसस्य टीका परिसमाप्ता ॥ मङ्गलमस्तु ॥छ॥ चरणकरणदक्षः क्षीणदोषो जिताक्षः क्षपितविधिविपक्षः क्षान्तिमान् बद्धकक्षः । यतिपतिजिनदत्ताचार्यदत्तोपदेशास्खलितमहिमयोगात् कान्तकीर्तिर्मुनीन्द्रः ॥१॥ समजनि जिनचन्द्रश्चन्द्रवच्चारुरोचिगणधरपदलाभाल्लब्धलोकप्रतिष्ठः । जिनमतयतिरेतत् तद्विनेयः सुशान्तो व्यलिखदमलबुद्धिः कृत्स्नकर्मक्षयाय ॥२॥ शरचन्द्रसूर्यसञ्जथे १२१५ सम्वद्विक्रमभूपतेः । अतियाति नभोमासे पञ्चदश्यां तिथौ रवी ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org