SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १२६ श्रीजेसलमेरुदुर्गस्थ ... क्रमाङ्क २८९ कातंत्रव्याकरणदुर्गसिंहवृत्ति दुर्गपदप्रबोध पत्र १९१। भा. सं.। क. प्रबोधमूर्ति गणि। ग्रं. ७४९१। र. सं. १३२८ । ले. सं. अनु. १४ शताब्दी उत्तरार्ध। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १०॥४२ आदि ॥ अहम् ॥ अथ। सूत्रे द्योतकादथशब्दात् सिः। कश्चित्तु वृत्तावनन्तराणीति दर्शनाजसित्याचष्टे । द्वयस्याऽप्यव्ययाच्चेति लोपः। परस्मैपदानीत्यत्रालुक्समासः ॥१॥ अथशब्द आनन्तर्य च तद्धितपादमपेक्ष्य वेदितव्यम् । तादृशं चानन्तर्य त्यादीनामेवास्ति, न तु सन्नादीनामपि, तेषामनेन पादेन व्यवहितत्वादित्याह । अथानन्तराणि स्यादीनि स्यामहिपर्यन्तानीति । अन्त इति श्रीजिनेश्वरसूरिशिष्यलेशप्रबोधमूतिगणिविरचिते वृत्तिदुर्गपदप्रबोधे कृत्सु षष्ठः पादः समाप्तः ॥छ। ग्रन्थं सम्यग, विभाव्य निखिलां वृत्ति प्रसङ्गात्तथा, क्वापि क्वापि च पञ्जिकामपि सभावार्थी विदित्वा जनाः। विज्ञाय क्रमशस्ततोऽखिलमतग्रन्थार्थसारं समालोच्याऽऽसेव्य च मुक्तिमार्गमचिराज्ज्ञानं लभन्तां परम् ॥१॥ चान्द्रे कुलेऽजनि गुरुर्जिनवल्लभाख्योऽर्हच्छासनं प्रथयिताऽद्भुतकृचरित्रः । तच्छिष्यमौलिजिनदत्तगुरुप्रवीरश्चक्रेऽखिलं विधिपथं सुवहं समन्तात् ॥२॥ तच्छिष्यो जिनचन्द्रसूरिरुदगाच्चित्रैरनन्तैर्गुणैः, सौन्दर्यादिभिरुच्यते स्म कृतिभिर्यः पञ्चविंशो जिनः । तत्पट्टाब्जसितच्छदो जिनपतिः सूरिः प्रतापाद्भुतो, माद्यद्वादिगजेन्द्रसिंह उदयत्सौभाग्यभाग्यावधिः ॥३॥ ज्ञानस्वर्दुभवैर्वरस्तवसुमैः सत्सौरभैरद्भुतैस्तत्कालग्रथितैर्जिनौकसि जिनान् येऽभ्यर्चयन्त्यन्वहम् । यत्कीर्तिप्रसवस्रजा तु जनता भूषत्यशेषा दिशस्ते श्रीसूरिजिनेश्वरा युगवरास्तत्पट्टमध्यासते ॥४॥ वृत्तेर्दर्गपदप्रबोधरसवत्येषा जगत्यै भृशं निःस्वेनापि धिया व्यधायि सुगुरोरस्य प्रसादान्मया । तन्निःशेषविशेषबोधनिपुणैरेषाऽधिकं सस्पृहः सद्बुद्धयङ्गविवृद्धये रविविभा यावन्मुदा स्वाद्यताम् ॥५॥ षटतर्कागमशब्दलक्ष्ममुखसद्विद्याब्धिकुम्भोद्भवैयः काव्यं मुखशुक्तिजं कृतधियां निर्दूषणं सद्गुणम् । दीप्रं चाऽपि कृतं सतामधिहृदं हारायते तैरसौ, श्रीलक्ष्मीतिलकाभिषेकतिलकैर्ग्रन्थो ह्यदज्वल्यत ॥६॥ विक्रमनृपवर्षेऽष्टाविंशत्यधिके त्रयोदशशतेऽसौ १३२८ । पूर्णः शुच्यां प्रतिपदि राधेऽश्विन्यां गुरौ वारे ॥७॥ चतुःसप्ततिशत्यस्यैकनवत्यधिका मितिः । चतुःसप्ततिमाधत्तां............मतां मताम् (2) ॥८॥ सप्रशस्तिग्रन्थाग्रं ७४९१ ॥छ।। क्रमाङ्क २९० (१) कातंत्रोत्तर विद्यानंदिवृत्ति-पंचसंधिपर्यंत अपूर्ण पत्र ७४ । भा. सं. । क. विजयानंद । (२) कातंत्रोत्तर विद्यानंदिवृत्ति-नामद्वितीयपादपर्यंत टिप्पणीसह पत्र ४६ । भा. सं.। क. विजयानंद । ले. सं. १२४५ । ॥छ। इति विजयानन्दविरचिते कातंत्रोत्तरे विद्यानंदापरनाम्नि नाम्नि द्वितीयः पादः समाप्तः ॥ संवत् ११४५ अशिनि (अश्विन) सुदि २ शुक्रे । शिवमस्तु सर्वेषाम् ।। (३) कातंत्रोत्तर विद्यानंदिवृत्ति-कारकप्रकरण पत्र २७ । भा. सं. । क. विजयानंद । ले. सं. १२४५ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १२१४२१. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy