________________
श्रीजेसलमेरुदुर्गस्थ
[क्र. २६४क्रमाङ्क २६४ पउमचरियं गाथाबद्ध पत्र २६ । भा. प्रा.। क. विमलाचार्य। ग्रं. १०३००। र. सं. वीरसंवत् ५३० । ले. सं. ११९८ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २८४२।। अंत्य पत्रमा शोभन छ। अन्त
यच्छब्दैकसमाश्रयो यदपि च द्रव्यत्वपात्रं परं, यद्भास्वत्खचितं यदङ्गविभुतासम्भावितं सर्वतः । यत् प्रोद्यत्कविमण्डलैकनिलयं यन्मङ्गलोल्लासभूस्तद्वयोमप्रतिमं समस्ति जगति श्रीभैल्लमालं कुलम् ॥१॥ अभूच्चन्द्रप्रभस्तत्र दीप्रः सत्करशोभितः। स्वकुलोत्पलिनीषण्डचण्डमार्तण्डसन्निभः ॥२॥ लज्जामन्दिरमुद्यमैकवसतिः शीलैकसंवासभूधर्मारामपयःप्रबुद्धजनतानेत्रोत्सवेंदुद्युतिः ।
प्रावीण्याम्बुजहंसिकाकुलवधूः धर्मेकपुण्याश्रमः, पत्नी तस्य वभूव राजिणिरिति श्रद्धाविशुद्धाशया ॥३॥ या च
रोमाञ्चकञ्चकचिताञ्चितगात्रयष्टिः, स्पष्टोल्लसद्विशदमोक्षसुखाभिलाषा ।
श्रीमन्मुनीन्द्रमुनिचन्द्रगुरोः समीपे सुश्रावकव्रतधुरां विधिना प्रपेदे ॥४॥ ज्येष्ठं सा च यशोधनं निरुपमप्रावीण्यपण्यापणं, पुत्रं पुण्यनिबन्धनकवसतिं प्रासूत नीतिप्रियम् । यत्राऽऽरोप्य कुटुम्बभारमखिलं स न्यस्तचित्तव्यथः, सत्साधून सदुपासकानहरहः सम्यक् सिषेवे पिता ॥५॥ आराधितजिनदेवं शोभनदेवं तथा परं पुत्रम् । पित्रोर्येन पवित्रं पदाम्बुजं सेव्यते सततम् ॥६॥
अन्यदा राजिणिश्चक्रे पुत्रवर्गसमन्विता। संसारासारतां ज्ञात्वा ज्ञाने स्वनिर्मलं मनः ॥७॥ तथाहि
प्रादुर्भवद्विविधकोविदबुद्धिवृद्धौ, दुर्बोधयोधयुधि लब्धजये यतन्ते । जैनेन्द्रशासनमवाप्य न के मनुष्या, हृष्टा विलेखनविधौ जिनपुस्तकानाम् ॥८॥ प्रायेण प्रतिवासरं सरभसं दोषान्धकारोदये, छन्नाशेषगुणालये हतकलौ कालेऽत्र संसर्पति । सर्वज्ञैः प्रतिपादितो यदि परं त्राता भवेन्मादशां, विश्वव्याप्यनुभावसम्पदुचितो ज्ञानांशुमाली किल ॥९॥
राजिणिः परिभाव्येदं ज्ञानस्य गुणमुत्तमम् । इदं पुस्तकमत्युच्चविधानेन व्यलीलिखत् ॥१०॥ यावद्विद्योतमानस्त्रिभुवनभवनाभ्यन्तरे बोधदीपः, सद्ध्यानस्नेहपूर्णः शमितमनसिजोत्तापचञ्चत्पतङ्गः । सद्दृष्टीनां विशिष्टस्फुरितरुचिगुणो विद्यते तावदत्र, प्राज्ञैः पापठ्यमानो जगति विजयतां पुस्तकोऽयं प्रशस्तः ॥छ।।
सम्वत् ११९८ कार्तिक वदि १३ ॥छ। महाराजाधिराजश्रीजयसिंघदेवविजयराज्ये भृगुकच्छसमावस्थितेन लिखितेयं सिल्लणेन ॥छ । मङ्गलं महाश्रीः ॥
क्रमाङ्क २६५ समराइच्चकहा पत्र ३०७ । भा. प्रा.। क. हरिभद्रसूरि । ग्रं. १००००। ले. सं. १२५० । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ३०४२। अन्त-॥छ॥ संवत् १२५० वर्षे लिखितं
क्रमाङ्क २६६ कुवलयमालाकथा पत्र २५४ । भा. प्रा.। क. दाक्षिण्यांक उद्योतनसूरि । ग्रं. १३०००। र. सं. ७०० शाके। ले. सं. ११३९ । संह. श्रेष्ठ। द. श्रेष्ठ। लं. प. २५।४२ अन्त
॥ इति कुवलयमाला नाम संकीर्णकथा परिसमाप्ता ॥ मंगलं महाश्री ॥ छ । संवत् ११३९ फाल्गु वदि १ रविदिने लिखितमिदं पुस्तकमिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org