________________ सिक्खा 812- अमिधानराजेन्द्रः - भाग 7 सिक्खावयव्वय तस्सेव अंतरायम्मि, सिक्खं सिक्खेज्ज पंडिए। संलेखनानुरूपां शिक्षा भक्तपरिज्ञङ्गितमरणादिकां वा शिक्षेत् / तत्र ग्रहणशिक्षया यथावन्मरणविधिं विज्ञायासेवनां शिक्षेतेति / सूत्र० 1 श्रु० 8 अ०। ('अट्ठावयं न सिक्खिजा।' इति 'धम्म' शब्दे चतुर्थभागे व्याख्यातम् / ) ("सत्थमेथे तु सिक्खंता, अतिवाया य पाणिणं / एगे मंते अहिजंति, पाणभूयविहेडिणो / " (सूत्र०१ श्रु०८ अ०१) इति 'वीरिय' शब्दे षष्ठभागे उदाहृतम्।) सिक्खण-न०(शिक्षण) आचारग्रन्थे, कल्प० 1 अधि०१ क्षण। सिक्खावण-न०(शिक्षण) अश्वादीनां चतुष्पदानां परिकर्मणि, नि० चू०१ उ०। सिक्खावणा-स्त्री०(शिक्षापणा) ग्रहणासेवनारूपशिक्षाग्रहणे, पं० भा०१ कल्प० / शिक्षापणा त्रिविधा-लोइया, लोउत्तरिया, कुप्पावयणिया। लोइया ताव व्याकरणनाटकादिषु शिक्षादि कुप्रावचनिकारक्तपटादीनां या शिक्षा, त्रिपटिकादिषु द्रव्यशिक्षा लोकोत्तरा द्विविधा-ग्रहणशिक्षा, आसेवनाशिक्षा च / गहणसिक्खा सुत्तत्थतदुभयाणं आसेवणापडिलेहणा, पप्फोडणाय उवट्ठावणा लोइया लोउत्तरा कुप्पावयणिया। लोइया राया रायमचठवणा / कुप्पावयणिया भिक्खु माइयाणं उवसंपदा लोउत्तरा असंयतत्वात्, व्रतेषु स्थापना उपस्थापना / पं० चू० 1 कल्प०। सिक्खावय-न०(शिक्षापद) शिक्षायाः पदं शिक्षापदम्। शिक्षेव वा पदंस्थानं शिक्षापदम् / विधिना प्रव्रजितस्य सतः शिक्षाधिकारे, विशे०। ध००। शिक्षाव्रत-न० शिक्षा--अभ्यासस्तत्प्रधानानि व्रतानि पुनः पुनरासवा हाणि / सामायिकादिषु श्रावकधर्मेषु, पञ्चा०२ विव० / "दुवालसविहं गिहिधम्म पडिवण्णा' अत्र त्रयाणां गुणव्रतानां शिक्षाप्रतेषु गणनात् सप्त शिक्षाव्रतानीत्युक्तम् / श्रा० / चत्वारि शिक्षाव्रतानि भवन्ति, तद्यथा-सामायिकम् देशावकासिकं पौषधोपवासः अतिथिसंविभागः। आव०६ अ०। सिक्खावयव्वय-न०(शिक्षापदव्रत) शिक्षणं शिक्षा अभ्यासस्तस्यै तस्या वा पदानि स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि। सामायिकादिषु श्रावकधर्मेषु, ध०१ अधि०। 'सत्त य सिक्खावयाई' सप्त च शिक्षाप्रधनानि व्रतानि, गुणवतानामपि नित्यमभ्यसनीयतया शिक्षाक्तत्वेन विवक्षणात् सप्त शिक्षाव्रतान्युक्तानि / आतु०। अथ यव्रतयोगाद्देशविरतो भवति तानि व्रतान्याहपंच य अणुव्वयाई, सत्त उ सिक्खा उ देसजइधम्मो। सव्वेण व देसेण व, तेण जुओ होइ देसजईशा सप्त च शिक्षाप्रधानानि व्रतानि गुणव्रतानामपि नित्यमभ्यसनीयतया शिक्षाव्रतत्वेन विवक्षणात् सप्त शिक्षाव्रतान्युक्तानि / आतु० / शिक्षाअभ्यासस्तस्याः पदानि स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि।। "चत्तारि सिक्खापयव्वयाई" प्रतिदिवसानुष्ठये सामायिकदेशावकाशिके पुनः पुनरुचार्ये इति भावनापोषधोपवासातिथिसंविभागौ तु प्रतिदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति / आव० सामायिक देशावकाशिकं पोषधोपवासः अतिथिसंविभागश्चेति, स्वल्पकालिकत्वा- चैतेषां गुणव्रतेभ्यो भेदः / गुणव्रतानि तु प्रायो यावजीविकानि / एतेष्वपि सामायिकदेशावकाशिके प्रतिदिवसानुष्ठेये पुनः पुनरुयारणीये पोषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति विवेकः आवश्यकवृत्तिकृतः / ध० 2 अधि० / इयाणिं सिक्खावया, शिक्षा नाम यथा सिष्यकः पुनः पुनर्विद्यामभ्यस्यति / एवमपि याणि चत्तारि सिक्खावयाणि पुणो-पुणो अब्भसिज्जंति अणुव्वयगुणेव्वयाणि / एक्कसिं गहियाणि चेव ताणि सिक्खावयाणि सामातियं देसावगासियं पोसहोववासो अतिहिसंविभागो। आo चू० 6 अ०। (प्रथमं शिक्षापदव्रतं सामायिकं तच 'सामाइय' शब्देऽस्मिन्नेव भागे विस्तरतो दर्शितम् / ) (द्वितीयं देशावकाशिकव्रतम् 'देसावगासिय' शब्दे 2633 पृष्ठे उक्तम् / ) (तृतीयं पौषधोपवासः 'पोसह' शब्दे पञ्चमभागे गतम् / ) (चतुर्थमतिथिसंविभागवतम् 'अइहिसंविभाग' शब्दे प्रथमभागे 33 पृष्ठे प्रतिपादितम् / ) चतुर्थशिक्षापदव्रते वृद्धोक्ता समाचारी-श्रावकेण पोषधं पारयता नियमात्साधुभ्यो दत्त्वा भोक्तव्यम्, कथम् ? यदा भोजनकालो भवति, तदाऽऽत्मनो विभूषां कृत्या प्रतिश्रयं च गत्वा साधून्निमन्त्रयते, "भिक्षां गृहीतेति' साधूनां च तं प्रति का प्रतिपत्तिः ? उच्यते- तदैकः पटलमन्यो मुखानन्तकमपरो भाजनं प्रत्युपेक्षतै, माऽन्तरायदोषाः स्थापनादोषा वाऽभूवन्निति / स च यदि प्रथमायां पौरुष्यां निमन्त्रयते, अस्ति च नमस्कारसहितप्रत्याख्यानी ततस्तद् गृह्यते, अथ नास्त्यसौ तदा न गृह्यते, यतस्तद्वोढव्यं भवति, यदि पुनर्घनं लगेत् तदा गृह्यते संस्थाप्यते च / यो वा उद्घाटपौरुष्यां पारयति पारणकवानन्यो वा, तस्मै तद्दीयते / पश्चात्तेन श्रावकेण स संघाटको व्रजति, एको न वर्त्तते प्रेषयितुं, साधू पुरतः श्रावकस्तुमार्गे (मार्गतो) गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते, यदि निविशेते तदा भव्यम्, अथ न निविशेते तथापि विनयः प्रयुक्तो भवति। ततोऽसौ भक्तं पानं च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एव वाऽऽस्ते यावद्दीयते, साधू अपि पश्चात्कर्मपरिहारार्थं सावशेषं गृहीतः ततो वन्दित्वा विसर्जयति, अनुगच्छति च कतिचित्पदानि, ततः स्वयं भुङ्क्ते / यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयतियदि साधवोऽभविष्यन् तदा निस्तारितोऽभविष्य-मिति / एष पोषधपारणके विधिः / अन्यदा तु दत्त्वा भुक्ते, भुक्त्या वा ददातीति / उमास्वातिवाचकविरचितश्रावक-प्रज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीताः, ततस्तेषां संविभागः कार्य इत्युक्तम्, तथा च तत्पाठः "अतिथिसंविभागो नाम अतिथयः- साधवः साध्व्यः श्रावकाः श्राविकाच, एतेषु गृहमुपागतेषु भक्त्याऽभ्युत्थानासनपादप्रमाजननमस्कारादिभिरर्चयित्वा यथा-विभवशक्ति अन्नपानवस्त्रौषधालयादिप्रदानेन संविभागः कार्यः" इति। एतव्रताराधनायैव प्रत्य